पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणाशम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

शक्नोमि । तथा-'यद्यहं तव विरुद्धमाचरामि तत्सुकृतमन्तरे मया विधृतम् ।' गोधाऽपि तद्वचनाद्गदत्तं द्रुततरमन्विष्याह-'भद्रगङ्गदत्त! स तव सुहृत्प्रियदर्शनस्तव मार्ग समीक्षमाणस्तिष्ठति, तच्छीघ्र. मागम्यतामिति । अपरञ्च-तेन तव विरुद्धकरणे जन्मसुकृतम- न्तरे धृतम् । तन्निःशङ्केन मनसा समागम्यताम् ।' तदाकये गङ्गदत्त आह- बुभुक्षितः कि न करोति पापं क्षीणा नरा निष्करुणा भवन्ति । आख्याहि भद्रे ! प्रियदर्शनस्य 'न गङ्गदत्तः पुनरेति कूपम् ॥ ३२ ॥ एवमुक्त्वा स तां विसर्जयामास ।। तद्भो दुष्टजलचर ! अहमपि गङ्गदत्त इव त्वद्गृहे न कथञ्चि. दपि यास्यामि ।' तच्छ्रुत्वा मकर आह-'भो मित्र ! नैतद्युज्यते, सर्वथैव मे कृतघ्नतादोषमपनय मद्गृहागमनेन । अथवाऽत्राहमनशनात्प्राण- त्यागं तवोपरि करिष्यामि ।' वानर आह-'मूढ ! किमहं लम्बकर्णो मूर्खः! दृष्टाऽपायोऽपि स्वयमेव तत्र गत्वात्मानं व्यापादयामि ? । आगतश्च गतश्चैव दृष्ट्वा सिंहपराक्रमम् । अकर्णहृदयो मूर्यो यो गत्वा पुनरागतः ।। ३३ ।। मकर आह-'भद्र ! स को लम्बकर्णः । कथं दृष्टापायोऽपि ' मृतः, ? । तन्मे निवेद्यताम् ।' वानर आह- नन्तु न प्रकृतानुगुणम् । तदागमनकासया-मण्डूकान्तरागमनाशया। गोधां-3 निहाका । ('गोह' ) । स्तोक-स्वल्पम् । सुकृतं धर्म'। अन्तरे मध्ये। विरुद्ध- करणे विपरीताचरणे । अपनय दूरीकुरु । दृष्टाऽपाय =दृष्टनाशहेतुरपि । अकर्ण- हृदय -कर्णहृदयशून्य , अतएव-मूर्ख ॥ ३३ ॥ १ 'दृष्ट्वासौ त्वां भयानक मिति लिखितपुस्तकपाठ ।