पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[४ लव्ध- तत्त्यजैन मिथ्याऽऽग्रहम् । उक्तञ्च- एका प्रेसूयते माता द्वितीया वाक्प्रसूयते । वाग्जातमधिकं प्रोचुः सोदर्यादपि बान्धवात् ॥६॥ अथ मकर्याह- त्वया कदाचिदपि मम वचनं नान्यथा कृतं, तन्नूनं सा वानरी भविष्यति, यतस्तदनुरागतः सकलमपि दिनं तत्र गमयसि । तत्-त्वं ज्ञातो मया सम्यक् । यतः- साह्लादं वचनं प्रयच्छसि न मे, नो वाञ्छितं किञ्चन, प्रायः प्रोच्छसिपि द्रुतं हुतवहज्वालासमं रात्रिषु । कण्ठाश्लेपपरिग्रहे शिथिलता यन्नादराच्चुम्बसे तत्ते धूर्त ! हृदि स्थिता प्रियतमा काचिन्ममेवापरा' ॥७॥ सोऽपि पत्न्याः पादोपसङ्ग्रहं कृत्वाऽङ्कोपरि निधाय तस्याः कोपकोटिमापन्नायाः सुदीनमुवाच- मयि ते पादपतिते किङ्करत्वमुपागते । त्वं प्राणवल्लभे ! कस्मात्कोपने ! कोपमेष्यसि ? ॥८॥ सापि तद्वचनमाकाश्रुप्लुतमुखी तमुवाच- स्वीकृतः । ('धर्मभाई')। मिथ्या व्यर्थम् । आग्रह-हठम् । पाठान्तरे- एकं-भ्रातरम् । प्रसूयते जनयति । द्वितीयं प्रतिपन्नं भ्रातरम् । वाक्-वाणी। वाग्जातं-प्रतिपन्नं भ्रातरं । ('धर्मभाई' 'मुहबोला भाई') । अन्यथाकृतम्-उल्ल. वितम् । तया वानर्या सह । 'तदनुरागत' इति तु सुन्दरः पाठः । गमयसि अतिवाहयसि । साह्लाद सहर्ष । वचनम् उत्तरम् । हुतवहज्वालासमं वह्नि- ज्वालातुल्यमत्युष्णम् । कण्ठाश्लेषपरिग्रहेकण्ठालिङ्गनस्वीकारे । 'परिग्रह. कलने च मूलस्वीकारयोरपी'ति अजयकोशः। धूर्त शठ। अपरा=अन्या ॥ ७ ॥ पादोपसङ्ग्रह-चरणवन्दनम्, अङ्कपालिबन्धनं वा। अङ्कोपरि-उत्सगोपरि। ('गोद में' )। कोपकोटि-क्रोधप्रकर्षम् । आपन्नाया =प्राप्तायाः। 'सुदीन मिति क्रियाविशेषणम् । किङ्करत्वं मृत्यत्वम् । कोपने हे कोपशीले ॥ ८॥ अश्रुभिः १ 'एक'मिति'दितोय'मिति पा०।