पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणाशम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

न पृच्छेच्चरणं गोत्रं न च विद्यां कुलं न च । अतिथिं वैश्वदेवान्ते श्राद्धे च मनुरब्रवीत् ।।३।। दूरायातं पथिश्रान्तं वैश्वदेवान्तमागतम् । अतिथि पूजयेद्यस्तु स याति परमां गतिम् ।। ४ ॥ अपूजितोऽतिथिर्यस्य गृहाद्याति विनिःश्वसन् । गच्छन्ति विमुखास्तस्य पितृभिः सह देवता.' ॥ ५ ॥ एवमुक्त्वा तस्मै जम्बूफलानि ददौ । सोऽपि तानि भक्ष- यित्वा तेन सह चिरं गोष्ठीसुखमनुभूय भूयोऽपि स्वभवनम- गात् । एवं नित्यमेव तौ वानरमकरौ जम्बूच्छायास्थितौ विवि- धशास्त्रगोष्ठया कालं नयन्तौ सुखेन तिष्ठतः । सोऽपि मकरो भक्षितशेषाणि जम्बूफलानि गृहं गत्वा स्वपत्न्याः प्रयच्छति । अथाऽन्यस्मिन् दिवसे तया स पृष्टः-'नाथ ! कैवं विधान्य. मृतफलानि प्राप्नोपि ?! स आह-'भद्रे ! ममास्ति परमसुहृद्रक्तमुखो नाम वानरः, स प्रीतिपूर्वमिमानि फलानि प्रयच्छति । अथ तयाऽभिहितम्- 'यः सदैवामृतप्रायाणीदृशानि फलानि भक्षयति तस्य हृद्यम- मृतमयं भविष्यति । तद्यदि मया भार्यया ते प्रयोजन ततस्तस्य हृदयं मह्यं प्रयच्छ-येन तद्भक्षयित्वा जरामरणरहिता त्वया सह भोगान्भुनज्मि ।' स आह–'भद्रे! मा मैवं वद । यतः स प्रतिपन्नोऽस्माकं भ्राता । अपर फलदाता । ततो व्यापादयितुं न शक्यते । वैश्वदेवान्त बलिवैश्वदेवकर्मान्ते, भोजनावसरे। आपन्न प्राप्त । स्वर्गसङ्कम स्वर्गसञ्चरणमार्ग । ('घाटो' 'रास्ता') । 'सक्रमो दुर्गसञ्चर' इत्यमर । चरण= गाखान् । गोत्रं-गोत्रप्रवर्तकान् ऋपीन् ॥ ३ ॥ गोष्टीसुखं कथालापगोष्टीसुखम् । विविधशास्त्रचर्चाकथाभिः । तया स्वप. न्या । प्रयच्छति ददाति । अमृतमयम् अमृतास्वादमधुरं, पीयूपनिमित वा। तस्य-वानरस्य । भोगान् सुखं । भुनज्मि अनुभवामि । प्रतिपन्न १ 'दूरमार्गश्रमश्रान्त'मिति मुद्रितपुस्तकेषु पाठ ।