पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[४ लब्ध - अथ लब्धप्रणाशम् । < 1 अथेदमारभ्यते लब्धप्रणाशं नाम चतुर्थ तन्त्रम् । यस्याय- मादिमः श्लोकः- समुत्पन्नेषु कार्येषु बुद्धिर्यस्य न हीयते । स एव दुर्ग तरति जलस्थो वानरो यथा ॥१॥ तद्यथानुश्रूयते--अस्ति कस्मिश्चित्समुद्रोपकण्ठे महाअम्बू पादपः सदाफलः । तत्र च रक्तमुखो नाम वानरः प्रतिवसति स्म । तत्र च तस्य तरोरधः कदाचित्करालमुखो नाम मकरः समुद्रसलिलानिष्क्रम्य सुकोमलवालुकासनाथे तीरोपान्ते न्यविशत। ततश्च रक्तमुखेन स प्रोक्त:-भोः ! भवान्समभ्यागतोऽ तिथिः, तद्भक्षयतु मया दत्तान्यमृततुल्यानि जम्बूफलानि । उक्तञ्च--प्रियो वा यदि वा द्वेष्यो मूल् वा यदि पण्डितः । वैश्वदेवान्तमापन्नः सोऽतिथिः स्वर्गसंक्रमः ॥ २॥

  • श्रीगुरुप्रसादशास्त्रिकृता अभिनवराजलक्ष्मीः *

लब्धस्य प्रणाश:-लब्धप्रणाशो यस्मिन् तन्त्रे तत्-लब्धप्रणाशम् । कार्येषु , समुत्पन्नेषु अवसरे समागते । विपत्तिकाले इति यावत् । यस्य पुंसः । हीयते= कुण्ठिता न भवति, न विषीदति । दुर्ग-विपदम् , दुःखादिकं-दुर्गमम् ॥ १ ॥ अनुश्रूयते-परम्परया श्रूयते । समुद्रोपकण्ठे-सागरसमीपे । सदाफल:= सर्व फलप्रद. । मकर =ग्राहः । ( 'मगरमच्छ' )। सलिलं जलम् । निष्क्रम्य= बहिरागत्य। (निकलकर) । सुकोमलाभि =मृदुभिः । वालुकाभिः=सिकताभिः । सनाथे-समलङ्कते। तीरोपान्त-तटसमीपदेशे। न्यविशत-अतिष्ठत् । सम- भ्यागत =आयातः। जम्बूफलानि जम्बू । ( 'जामुन')। द्वेष्यः अप्रियः । १ 'लब्धमर्थन्तु यो मोहात्सान्त्वनैः प्रतिमुञ्चति । स तथा वन्च्यते मूढो मकरः कपिना यथा ॥' इति ॥'पाठा० । 1