पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणाशम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

सार्धं मनोरथशतैस्तव धूर्त ! कान्ता सैव स्थिता मनसि कृत्रिमभाचरन्या । अस्माकमस्ति न कथचिदिहावकाश- स्तस्मात्कृतं चरणपातविडम्बनाभि. ॥ ९ ॥ अपरं-सा यदि तव वल्लभा न भवति, तत्कि मया भणि- तोऽपि तां न व्यापादयसि ?'। अथ यदि स वानरस्तत्कल्तेन सह तव स्नेहः । तत्कि बहुना-यदि तस्य हृदयं न भक्षयामि तर्हि मया प्रायोपवेशनं कृतं विद्धि ।' एवं तस्यास्तं निश्चयं ज्ञात्वा चिन्ताव्याकुलितहृदयः स प्रोवाच,-'अहो! साध्विदमुच्यते- वज्रलेपस्य मूर्खस्य नारीणां कर्कटस्य च । एको ग्रहस्तु मीनानां नीलीमद्यपयोस्तथा ॥ १०॥ तत्कि करोमि ? कथं स मे वध्यो भवति?' ! इति विचिन्त्य वानरपार्श्वमगमत् । वानरोऽपि चिरादायान्तं तं सोद्वेगमवलोक्य प्रोवाच-'भो मित्र ! किमद्य चिरवेलया समायातोऽसि ' कस्ला- त्साह्लादं नालपसि १ । न च सुभाषितानि पठसि ? । स आह-'मित्र ! अहं तव भ्रातृजायया निष्ठुरतरैर्वात्यैर- भिहितः-यत्-'भोः कृतघ्न ! मा मे त्वं स्वमुखं दर्शय, यतस्त्वं प्रतिदिनं मित्रमुपजीवसि, न च तस्य पुनः प्रत्युपकारं गृहदर्शन- प्लुतं व्याप्तं मुख यस्य सा=अश्रुधौतवदना । मनोरथशतैः सार्धम् अभिलाष- परम्पराभिः सह । कृत्रिमभावरम्या लीलाविलासरमणीया। सैव-अन्या ते प्रिया हृदि स्थितेति अनेकजनमकीर्णे तनास्माकमवकाश एव नास्तीति-अल पादपतनाडम्बरैरित्यर्थः। अनेकजनपूर्णे स्थानेऽन्यस्यावकाशो नेव भवतीति लोकप्रसिद्धमेव ॥ ९॥ भणिते कयितेऽपि । वानर इत्यस्य-'न वानरीति शेष ।प्रायोपवेशनम् आहारत्यागपूर्वक मरणपर्यन्तं स्थिति । ('अनशन' 'धरना')। वज्रलेपः= शिल्पिरचितसन्धानलेपद्रव्यविशेष । एको ग्रह =एक एव निश्चयः, ग्रहणश्च ॥ १० ॥ सा वानरः । सोद्वेग-व्याकुलम् । चिरवेलया-वहो कालात् । भ्रातृ-