भेद ]
- अभिनवराजलक्ष्मीविराजितम् *
निरतिशयं गरिमाणं तेन जनन्या' स्मरन्ति विद्वांसः । यत्कमपि वहति गर्भ महतामपि यो गुरुर्भवति ॥ ३१॥ अप्रकटीकृतशक्तिः शक्तोऽपि जनस्तिरस्क्रियां लभते। निवसन्नन्तर्दारुणि लव यो वह्निर्न तु ज्वलितः ॥ ३२ ॥ करटक-आह,-आवां तावदप्रधानौ, तत्किमावयोरनेन व्यापारण? | उक्तञ्च- अपृष्टोऽत्राऽप्रधानो यो ब्रूते राज्ञः पुरः कुधीः । न केवलमसंमानं-लभते च विडम्बनम् ॥ ३३॥ तथाच- वचस्तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम् । स्थायीभवति चाऽत्यन्तं-रागः शुक्लपटे यथा ।। ३४ ॥ दमनक आह-मा.मैवं वद । अप्रधानः प्रधानः स्यात्सेवते यदि पार्थिवम् । प्रधानोऽप्यप्रधानः स्याद्यदि सेवाविवर्जित. ॥ ३५ ॥ यत उक्तश्च- आसन्नमेव नृपतिर्भजते मनुष्यं X विद्याविहीनमकुलीनससंस्कृतं वा । प्रायेण भूमिपतयः प्रमदा लताश्च यत्पार्श्वतो भवति तत्परिवेष्टयन्ति ।। ३६ ।। य. गर्भ । तदुद्भूतो वाल इति यावत् ॥ ३१ ॥ अप्रकटितेति । शक्तोऽपि यदि अप्रकटितशक्तिश्चेजनेस्तिरस्क्रियते, यस्तु शक्तिमात्मनोऽकुण्ठिता विस्तारयति स एव तु संमानभाजनमित्याशयः। अरणि- काष्ठादौ हि वह्निर्निवसतीति प्रसिद्धि ॥ ३२॥ केवलमसंमानं तिरस्कारमेव न । विडम्बनम् उपहासमपि ॥ ३३ ॥ प्रयोक्तव्यं वक्तव्यम् । फलं लभते सफल भवति । राग -नीलीमजिष्ठा- दिराग (रंग)। पार्थिवं-राजानम् ॥ ३५ ॥ असंस्कृत दुष्टमविनीतञ्च । यत् किमपि वस्तु योग्यमयोग्यं वा तदेव भजन्ति । प्रमदा. स्त्रिय ॥ ३६ ॥