- पञ्चतन्त्रम् *
[१ मित्र- कि तस्य जीवितफलं हि मनुष्यलोके ? काकोऽपि जीवति चिराय बलिञ्च भुते ॥ २५ ॥ सुपूरा स्यात्कुनदिका, सुपूरो मूपिकाञ्जलिः । सुसन्तुष्टः कापुरुप: स्वल्पकेणापि तुप्यति ।। २६ ।। किञ्च-कि तेन जातु जातेन मातुर्योवनहारिणा ?। x आरोहति न यः स्वस्य वंशस्याऽग्रे-ध्वजो यथा ।। २७ ।। परिवर्तिनि संसारे मृतः को वा न जायते ? । जातस्तु गण्यते सोऽत्र यः स्फुरेच्च श्रियाधिकः ॥ २८ ॥ किञ्च-जातस्य नदीतीरे तस्यापि तृणस्य जन्मसाफल्यम् । यत्सलिलमज्जनाऽऽकुलजनहस्तालम्बन भवति ॥२९॥ तथा च-स्तिमितोन्नतसञ्चारा जनसन्तापहारिणः । जायन्ते विरला लोके जलदा इव सजनाः ॥ ३० ॥ कुनदिका क्षुद्रा नदी। सुपूरा-अल्पेनैव जलेन पूरयितुं शक्या । मूषिकस्य अञ्जलि =सूपकेण भोजनसङ्ग्रहाय वद्धोऽञ्जलि.। एवं कापुरुष =अनुद्यमशील. पुमान् , स्वल्पेनैव सन्तुष्यतीत्यर्थ ॥ २६ ॥ जातु-निश्चये, वाक्यालङ्कारे,प्रसिद्धौ वा । वंशस्य कुलस्य। ज्ञातिवान्धववर्गस्य, वंशाख्यमहीरुहस्य [वंश 'कुल' 'वॉस' ] वा। यथा ध्वजो वंशस्याऽग्रभागे स्फुरति, तथा यो निजवंशस्य मुख्यो न भवति, तेन जातेन खलु मातुर्योवना- पहार एव कृतः । एवञ्च व्यर्थ तस्य जन्मेत्याशय ॥ २७ ॥ स एव 'जात इति गण्यते य. श्रिया सर्वगुणसम्पदा, स्फुरत्-जगति प्रसिध्येत् ॥ २८॥ यत्-तृणं, तदपि जले निमजतो जनस्य आलम्बनाय प्रभवति । यस्तु पुमान् समर्थ सन्नपि नाऽन्यविपन्नजनोपकारमाचरति तस्य वृथैव जन्मेति भाव ॥ २९ ॥ स्तिमितेति । सज्जनपक्षे-स्तिमित' दयाई । उन्नत =दानदाक्षिण्यादि- गुणगणोपहित । सञ्चार: व्यवहार आचरणं च येषामिति । मेघपक्षे स्तिमितः जलभरमन्थर, उन्नतश्च-गगनप्रान्तचुम्बी च । सञ्चारः-प्रसारो व्याप्तिश्च येषामित्यर्थो वोध्य ॥ ३० ॥