पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[३ काको- अथ देव्यागतने गत्वा स्नानार्थ नद्यामवतीर्य यावत्स्नान- क्रियां करोति, तावत्तद्भर्तापि मार्गान्तरेणागत्य देव्याः पृष्टतो- दृश्योऽवतस्थे। अथ सा ब्राह्मणी स्नात्वा देव्यायतनमागत्य स्नानानुलेपन- माल्यधूपबलिक्रियादिकं कृत्वा देवी प्रणस्य व्यजिज्ञपत-'भग- वति ! केन प्रकारेण मम भर्ताऽन्धो भविष्यति ?' | | तच्छुत्वा स्वरभेदेन देवीपृष्ठस्थितो ब्राह्मणो जगाद-'यदि त्वमजलं घृत. पूरादि भक्ष्यं तस्मै भत्रै प्रयच्छसि, ततःशीघ्रसन्धो भविष्यति।' सा तु वन्धकी कृतकवचनवञ्चितमानसा तस्मै ब्राह्मणाय तदेव नित्यं प्रददौ। अथाऽन्येााह्मणेनाभिहितम्-'भद्रे! नाहं सुतरां पश्यामि।' तच्छुत्वा चिन्तितमन्या-'देव्याः प्रसादोऽयं प्राप्तः' इति । अथ तस्या हृदयवल्लभो विटस्तत्वकाशम्-'अन्धीभूतोऽयं ब्राह्मणः किं मम करिष्यतीति निःशङ्क प्रतिदिनमभ्येति । अथाऽन्येद्युस्तं प्रविशन्तमभ्याशगतं दृष्टा केशैर्गृहीत्वा लगु. डपाणिप्रभृतिप्रहारैस्तावदताडयत्,-यावदसौ पञ्चत्वमाप । तामपि दुष्टपत्नीं छिन्ननासिकां कृत्वा विससर्ज । अतोऽहं ब्रवीमि-'सर्वमेतद्विजानामि-' इति । अथ मन्दविषोऽन्तर्लीनमवहस्य पुनरपि 'मण्डका विविधा ह्येते-' इति तदेवाऽब्रवीत् । अथ जालपादस्तच्छ्रुत्वा सुतरां व्यग्रहृदयः 'किमनेनाभिहितम्'-इति सम्ययाऽवगम्य तम- T F यत् । ( क्योकि इसलिए कि-)। अनुलेपनम् अङ्गरागादिकं । माल्यं माला। क्रिया निवेदनं । व्यजिजपत्-प्रार्थयामास, पप्रच्छेति वा। तत् स्वभावच । स्वरभेदेन कण्ठध्वनि परावर्त्य । अजस्रं नित्यं । घृतपूरो भक्ष्यभेद । ('घेवर' 'जलेबी' )। बन्धकी कुलटा । ( बदमाश)। कृतकवचनवञ्चितमानसा कपट- वाक्यवञ्चितचित्ता। तदेव-घृतपूरादि। सुतरा यथावत् । अनया ब्राह्मण्या । हृदयवल्लभ =प्रियः। विट:-षिङ्ग । (यार )। अभ्याशगतं-निकटस्थितं । पाणि =पादप्रान्तभागः (एडी)। आकारप्रच्छादनार्थ-मनोभावगोपनार्थम् । दुष्ट