पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रखकोयम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

किमपि नावबुध्यते। अत्रान्तरेऽन्यो महाकायः कृष्णसर्पस्तमुद्देश समायातः । तं च मण्डू कैर्वाह्यमानं दृष्ट्वा विस्मयमगमत् । आह च-'वयस्य ! यदस्माकमशनं तै. ( कथं) वाहसे ?। बिरुद्धमेतत् ।' मन्दविपोऽब्रवीत्- सर्वमेतद्विजानामि यथा वाह्योऽस्मि द१रैः। किञ्चित्कालं प्रतीक्षेऽहं घृतान्धो ब्राह्मणो यथा ॥२३६।। लोऽब्रवीत्-'कथमेतत् ? । मन्दविषः कथयति- १६. घृतान्धव्राह्मणकथा अस्ति कस्मिश्चिदधिष्टाने यज्ञदत्तो नाम ब्राह्मणः। तस्य भार्या पुंश्चल्यन्यासक्तमना अजस्रं विटाय सखण्डघृतान्घृतपूरा- २ कृत्वा भर्तुश्चौरिकया प्रयच्छति। अथ कदाचिद्भर्ता दृष्ट्वाड- ब्रवीत्-'सद्रे! किमेतत्परिपच्यते ? कुत्र वाऽजस्त्रं नयसीदम् ? कथय सत्यम्'। ला चोत्पन्न प्रतिभा कृतकवचनैर्भर्तारमब्रवीत्- 'अस्त्यत्र नातिदूरे भगवत्या देव्या आयतनं, तत्राऽहमुपोषिता राती बलिं भक्ष्यविशेषांश्चापूर्वान्नयामि।' अथ तस्य पश्यतो गृहीत्वा तत्सकल देव्यायतनाभिमुखो प्रतस्थे । यत्कारण-देच्या निवेदितेनाऽनेन मदीयो भतेवं मस्यते, यत्-'मम ब्राह्मणी भग वत्याः कृते भक्ष्यविशेषान्नित्यमेव नयतीति । 'लम् । अक्षीणा -असमाप्ता। खाटत. भक्षयत ॥२३५॥ कृतकवचनव्यामो- हितचित्त कपटवाक्यरचनाव्यामोहितमानसः । अववुध्यते जानाति । वरन्या सखे! अशनं भक्ष्यभूता । वाह्य वाहनता गतोऽस्मि । पुश्चली कुलटा । अजस्र प्रत्यहं । विटाय-जाराय । सखण्डघृतान् घृतगर्करायुतान् । घृतपूरान्= भक्ष्यभेदान् । ( 'घेवर')। उत्पन्नप्रतिभा प्रत्युत्पन्नमति । कृतकवचनै =मिथ्या- वाक्य । आयतनं मन्दिरम् । उपौषिता-कृतव्रता। वलिम्-उपहारम् । अपू- र्वान्नानाविधान् । तस्य भर्तु । यत्कारणं-देवमन्दिरं प्रतिगमनस्येदं कारणं १ इय कथाऽश्लोलत्वात्काशिकमध्यमपराक्षापाट्याशदहिभूता।