पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[३ काको- सर्वैरेव गत्वा जालंपादनानो दर्दुराजस्य विज्ञप्तम् । अथासावपि मन्त्रिपरिवृतोऽत्यद्भुतमिदमिति मन्यमानः ससम्भ्रमं हृदादुत्तीर्य मन्दविषस्य फणिनः फणाप्रदेशमधिरूढः। शेषा अपि यथा- ज्येष्ठं तत्पृष्ठोपरि समारुरुहुः। किंबहुना-तदुपरि स्थानमप्राप्त. वन्तस्तस्यानुपदं धावन्ति। मन्दविपोऽपि तेषां तुष्टयर्थमनेक- प्रकारान्गतिविशेषानदर्शयत् । जालपादो लब्धतदङ्गसंस्पर्श सुखस्तमाह- 'न तथा करिणा यानं तुरगेण रथेन वा । नरयानेन नावा वा यथामन्दविषेण मे' ॥२३४ ॥ अथान्येधुर्मन्दविपश्छद्मना मन्दं मन्दं विसर्पति। तच्च दृष्ट्वा जालपादोऽब्रवीत् ,-'भद्र ! मन्दविष ! यथापूर्व किमद्य साधु नोह्यते' ? । मन्दविषोऽब्रवीत्-'देव ! अद्याहारवैकल्यान मे वोढुं शक्तिरस्ति ।' अथाऽसावब्रवीत्-'भद् ! भक्षय क्षुद्रमण्डूकान् ।' तच्छ्रुत्वा प्रहर्षितसर्वगात्रो भन्दविषः ससम्भ्रममब्रवीत्- 'ममायमेव विप्रशापोऽस्ति, तत्तवाऽनेनानुज्ञावचनेन प्रीतोऽस्मि।' ततोऽसौ नैरन्तर्येण मण्डूकान्भक्षयन्कतिपयैरेवाहोभिर्बल- वान्संवृत्तः । प्रहृष्टश्चान्तीनमवहस्येदमब्रवीत्- 'मण्डूका विविधा ह्येते छलपूर्वोपसाधिताः । कियन्तं कालमक्षीणा भवेयुः खादतो मम' ।।२३५।। जालपादोऽपि मन्दविषेण कृतकवचनव्यामोहितचित्तः प्रसादेन-अनुग्रहेण । लब्धा या जिविका-आहार,,-तया । वर्तिप्यसे । इदं सर्पशापकथानकम् । विज्ञप्तं निवेदितम् । फणिन.-सर्पस्य। यथाज्येष्ठं-ज्येष्ठ कनिष्टक्रमेण । अनुपदं-पृष्टत.। करिणा हस्तिना। मन्दविपेण-अनेन सर्पण ॥ २३४ ।। छद्मन -कपटेन । विसर्पति-चलति । साधु शोभनम् । उह्यते प्राप्यते। आहारवैकल्यात् भोजनविरहात् । अन्तलीनस् अन्तर्निगूढम् । (मन ही मन )। छलपूर्वोपसाधिता -कपटेन स्वव कृताः। कियन्त=विपु- १ 'जलपाद'इति पा०।