पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टूकीयम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

पृच्छत्-'भद्र । कि त्वयाऽभिहितमिदं विरुद्धं वचः। अथाऽसा- वाकारप्रच्छादनार्थ 'न किञ्चित्' इत्यब्रवीत् । तथैव कृतकव- चनव्यामोहितचित्तो जालपादस्तस्य दुष्टाभिसन्धि नावबुध्यते । - कि बहुना-तथा तेन सर्वेऽपि भक्षिता यथा बीजमात्रमपि नावशिष्टम् । अतोऽहं ब्रवीमि-'स्कन्धेनापि वहेच्छत्रुम्'-इति 18 अथ राजन् ! यथा मन्दविषेण बुद्धिबलेन मण्डूका निहताः, तथा मयापि सर्वेऽपि वैरिण इति । साधु चेदमुच्यते- वने प्रज्वलितो वह्निर्दहन्मूलानि रक्षति । समूलोन्मूलनं कुर्याद्वायुर्यो मृदुशीतलः ।। २३७ ।। मेघवर्ण आह-'तात ! सत्यमेवैतत् ; ये महात्मानो भवन्ति ते महासत्त्वा आपद्गता अपि प्रारब्धं न विसर्जयन्ति । उक्तञ्च यतः- महत्त्वमेतन्महतां नयाऽलङ्कारधारिणाम् । न मुञ्चन्ति यदारब्धं कृच्छेपि व्यसनोदये ।। २३८ ।। तथा च- प्रारभ्यते न खलु विघ्नभयेन नीचैः, प्रारभ्य विन्नविहिता विरमन्ति मध्याः । विन. सहस्रगुणितैरपि हन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥२३९॥ तत्कृतं निष्कण्टकं मम राज्य शत्रून्निःशेषतां नयता त्वया । अथवा युक्तमतन्नयवेदिनाम् । उक्तञ्च यतः- भिसन्धि दुष्ट मनोभावम् । पाठान्तरे-वार्योधः जलप्रवाह । वह्निस्तु मूलं न दहति, परं जलपूरस्तु समूलमुन्मूलयति । 'वायुरिति मुद्रित पाठस्तु न सुन्दरः ॥२३७॥ महासत्त्वा: महौजस । नीतिरेवालङ्कारस्तद्धारणशीलाना। व्यसनो- दये-विपत्तिसमागमे ॥ २३८ ॥ ये विरमन्ति ते मध्या इत्यर्थ । 'प्रारभ्य १ 'समूलकाप कषति वायोघो मृदुशीतल 'इति लिखितपुस्तकपाठोऽजीव हृद्य इति गौडा । २. 'विघ्नै पुन. पुनरपि प्रतिहन्यमाना.' 'प्रारभ्य चोत्तमजना' इति कचित्पाठः।