पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

२८३ गोयुगं हर्तु प्रस्थितोऽस्मि ।' अथ जातप्रत्ययो राक्षसोऽब्रवीत्- 'भद्र ! षष्ठान्नकालिकोऽहम् । अतस्तमेव ब्राह्मणमद्य भक्षयिष्या- मि ।। तत्सुन्दरमिदम् एककार्यावेवावाम् ।' अथ तौ तत्र गत्वैकान्त कालमन्वेषयन्तौ स्थितौ । प्रसुप्ते च ब्राह्मणे तद्भक्षणार्थ प्रस्थितं राक्षसं दृष्टा चौरोऽब्रवीत्-'भद्र ! नैप न्यायः, यतो गोयुगे मयापहृते पश्चात्त्वमेनं ब्राह्मणं भक्षय ।' सोऽब्रवीत्-'कदाचिदयं ब्राह्मणो गोशब्देन बुध्येत, तदान- र्थकोऽयं ममारम्भ स्यात् ।' चौरोऽप्यब्रवीत्-'तवापि यदि भक्षणायोपस्थितस्यान्तरे एकोऽप्यन्तरायः स्यात्, तदाहमपि न शक्नोमि गोयुगमपहर्तुम् ,-अतः प्रथमं मया हृते गोयुगे पश्चा- त्वया ब्राह्मणो भक्षयितव्यः' इत्थं 'चाहमहमिकया तयोर्विव- दतोः समुत्पन्ने द्वैधे प्रतिरववशाब्राह्मणो जजागार । अथ तं चौरोऽब्रवीत्-'ब्राह्मण ! त्वामेवायं राक्षसो भक्षयितुमिच्छति-' इति । राक्षसोऽप्याह-'ब्राह्मण ! चौरोऽयं गोयुगन्तेऽपहर्तुमि- -च्छति।' एवं श्रुत्वोत्थाय ब्राह्मणः सावधानो भूत्वेष्टदेवतामन्त्र- ध्यानेनात्मानं राक्षसादुद्गर्णलगुडेन च चौराद्गोयुगं ररक्ष । अतो- ऽहं ब्रवीमि-'शत्रवोऽपि हितायैव-'इति । * अथ तस्य वचनमवधार्याऽरिमर्दनः पुनरपि प्राकारकर्णम- पतित = श्रेणिर्यस्यासी तथाभूत । उन्नतो नासावंशो यस्यासौ तथाभूत प्रोन्नत- नासिकादण्ड. । प्रकटे-स्फुटे । रक्तान्ते रक्तप्रान्ते । नयने-लोचने यस्यासौ तथा- भूत । ( 'उभडी हुई वडी२ लाल २ आखो वाला ) । उपचितै स्थूलैः । स्ना- युभिः नाडीभिः । सन्ततं गात्रं यस्यासौ तथाभूत. । सुहुतो यो हुतवह =अग्नि , तद्वत् पिगलं श्मश्रुकेशशरीरं यस्यासौ तथाभूत । कश्चित् सत्त्वविशेष (कोई जीव, भूत)। तीव्रभयत्रस्त.-प्रगाढभयाकुल.। जातप्रत्ययः जातविश्वासः । षष्ठेऽनकाले चरति-षष्ठान्नकालिक =दिनषट्केन बुभुक्षित । तत्र ब्राह्मणगृहे। कालम् अवसरम् । अन्तरे-मध्ये । अन्तराय =विघ्नः । अहमहमिकया अह पूर्वमहं पूर्वमित्येवम् । द्वैधे विरोधे । प्रतिरव =कोलाहल.। जजागार जागर्ति- स्म । राक्षसात्-मन्त्रेणात्मानं रक्षितवान् । लगुडेन चौराद्वृषभयुगं रक्षितमि-