पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ । ॐ पञ्चतन्त्रम् [३ काको- चौरेण जीवितं दत्तं राक्षसेन तु गोयुगम् ॥ १८९ ॥ अरिमर्दनः प्राह-'कथमेतत् ?' । वक्रनासः कथयति- ९. ब्राह्मणचौरपिशाचकथा अस्ति कस्मिश्चिदधिष्ठाने दरिद्रो द्रोणनामा ब्राह्मणः प्रति- ग्रहधनः, सततं विशिष्टवस्त्रानुलेपनगन्धमाल्यालङ्कारताम्बूला- दिभोगपरिवर्जितःप्ररूढकेशश्मश्रुनखरोमोपचितः शीतोष्णवात. वर्षादिभिः परिशोषितशरीरः। तस्य च केनापियजमानेनाऽनुक- म्पया शिशुगोयुगं दत्तम् । ब्राह्मणेन च बालभावादारभ्य याचित- घृततैलयवसादिभिः संवर्य सुपुष्टं कृतम् । तच्च दृष्ट्वा सह- सैव'कश्चिच्चौरश्चिन्तितवान्-'अहमस्य ब्राह्मणस्य गोयुगमिदम- पहरिष्यामि ।'-इति निश्चित्य निशायां बन्धनपाशं गृहीत्वा यावत्प्रस्थितस्तावदर्धमार्गे प्रविरलतीक्ष्णदन्तपकिरुन्नतनासा- वंशः, प्रकटरक्तान्तनयनः, उपचितस्नायुसन्ततगात्रः, शुष्क- कपोलः, सुहुतहुतवहपिङ्गलश्मश्रुकेशशरीरः कश्चिद् दृष्टः । दृष्ट्वा च तं तीव्रभयत्रस्तोऽपि चौरोऽब्रवीत्-'को भवान् ? इति । स आह-'सत्यवचनोऽहं ब्रह्मराक्षसः। भवानप्यात्मानं निवेदयतु।' सोऽब्रवीत्-'अहं क्रूरकर्मा चौरो दरिद्रब्राह्मणस्य पुष्टये लाभाय, बलाय च । तदीयरन्ध्रदर्शनाय शत्रुच्छिद्रसूचनाय । गोयुगं= वृषभद्वयम् ( वैलकी जोड़ी)॥ १८९ ॥ प्रतिग्रहधन: भिक्षाधन । विशिष्टानि महार्हाणि-वस्त्राणि, अनुलेपनम् = अङ्गरागादि, गन्धः-कुसुमाद्यामोदः, (इन)। माल्यं माला, अलङ्कारः भूपणं, ताम्बूलादिकञ्च, तेषा भोगः-उपभोगः, तेन परिवर्जितः रहितः। प्ररूढः वृद्धैः- केशश्मश्रुनखरोमभिः-उपचितः= व्याप्तः। शीतोष्णवातवर्षादिभिः शीतोष्णादि- द्वन्द्वैः। परिशोषितशरीर.=शुष्कगात्रः । अनुकम्पया दयया। शिशुगोयुगं गो- वत्सयुगलम् । बालभावात् बाल्यात् । यवसं-घासः । (भूसा)। वन्धनपाशं= गोवन्धनरज्जुम् । अर्धमार्ग मध्येमार्गम् । प्रविरला-सावकाशा, तीक्ष्णा=निशिता, दन्ताना