पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[ ३ काको. गृच्छत्-'कथय किमत्र मन्यते भवान् ? ।' सोऽब्रवीत्-'देव! अवध्य एवायम्' । यतो रक्षितेनानेन कदाचित्परस्परप्रीत्या कालः सुखेन गच्छति । उक्तञ्च- परस्परस्य मर्माणि ये न रक्षन्ति जन्तवः । त एव निधनं यान्ति वल्मीकोदरसर्पवत् ।। १९० ।। अरिमर्दनोऽब्रवीत्-'कथमेतत् ?' । प्राकारकर्णः कथयति- १० वल्मीकोदरसर्पकथा अस्ति कस्मिश्चिन्नगरे देवशक्तिर्नाम राजा। तस्य च पुत्रो जठरवल्मीकाश्रयेणोरगेण प्रतिदिनंप्रत्यङ्गंक्षीयते । अनेकोपचारैः सद्वैद्यः सच्छानोपदिष्टौषधयुक्त्यापि चिकित्स्यमानो न स्वा- स्थ्यमाप्नोति । अथासौ राजपुत्रो निर्वेदाद्देशान्तरं गतः। कस्मि- श्चिन्नगरे मिक्षाटनं कृत्वा महति देवालये कालं यापयति । अथ तत्र नगरे बलिन म राजास्ते, तस्य च द्वे दुहितरौ यौवनस्थे तिष्ठतः। ते च प्रतिदिवसमादित्योदये पितुः पादान्ति- कमागत्य नमस्कारं चक्रतुः । तत्र चैकाऽब्रवीत्-विजयस्व महाराज ! यस्य प्रसादात्सर्व सुखं लभ्यते।' द्वितीया तु 'वि. हितं भुझ्व महाराज!'-इति ब्रवीति । तच्छ्रुत्वा प्रकुपितोराजा- “ऽब्रवीत्-'भो मन्त्रिन् ! एनां दुष्टभाषिणी कुमारिकां कस्यचिद्वै- देशिकस्य प्रयच्छ, येन निजविहितमियमेव भुते । अथ 'तथा' इति प्रतिपद्य-अल्पपरिवारा सा कुमारिका नन्त्रिभिस्तस्य देवकुलाश्रितराजपुत्रस्य प्रतिपादिता। साऽपि- त्यर्थः। उद्गूर्णलगुडेन उद्यतेन लगुडेन । मर्माणि रहस्यानि । निधनं= मरणम् ॥ १९०॥ जठरवल्मीकाश्रयेण-उदररूपविलस्थितेन । उरगेण सर्पण । प्रत्यङ्गं -सर्वे- बङ्गेषु । निर्वेदात औदासिन्याखेदाद्वा । यौवनस्थे-युवती । ते युवती । पादा- न्तिकं चरणसमीपम्। यस्य-भवतः। प्रसादात् अनुग्रहेणा लभ्यत-इत्यस्य अस्मा- भिरिति शेप.। विहितं-पूर्वकृतं कर्म । वैदेशिकस्य-परदेशिकस्य। निजविहितं