पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

२७७ मा चाऽस्मै त्वं कृथा द्वेपं बद्धाऽनेनेति मत्प्रिया। स्वकृतैरेव बद्धाऽहं प्राक्तनैः कर्मवन्धनैः ॥ १५३ ।। यत. दारिद्यरोगदुःखानि बन्धनव्यसनानि च । आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् ॥ १५४ ।। तस्मात्त्वं द्वेपमुत्सृज्य मद्वन्धनसमुद्भवम् । धर्मे मनः समाधाय पूजयैनं यथाविधि' ॥ १५५ ॥ तस्यास्तद्वचनं श्रुत्वा धर्मयुक्तिसमन्वितम् । उपगम्य ततोऽधृष्टः कपोतः प्राह लुब्धकम् ॥ १५६ ॥ 'भद्र ! सुस्वागतं तेऽस्तु ब्रूहि किङ्करवाणि ते ? सन्तापश्च न कर्तव्यः स्वगृहे वर्तते भवान् ॥ १५७ ॥ तस्य तद्वचनं श्रुत्वा प्रत्युवाच विहङ्गहा । 'कपोत! खलु शीतं मे हिमत्राणं विधीयताम् ॥ १५८ ॥ स गत्वोऽङ्गारकं नीत्वा पातयामास पावकम् । ततः शुष्केषु पर्णेपु तमाशु समदीपयत् ॥ १५९ ॥ सुसन्दीप्तं तत. कृत्वा तमाह शरणागतम् । 'सन्तापयस्व विश्रब्धं स्वगात्राण्यत्र निर्भयः ।। न चास्ति विभव कश्चिन्नाशये येन ते क्षुधम् ॥१६०॥ सहस्रं भरते कश्चिच्छतमन्यो दशापरः । मम त्वकृतपुण्यस्य क्षुद्रस्यात्मापि दुर्भर ॥१६१ ॥ प्राक्तनैः पूर्वोपार्जितै । बन्धनं कारागारादिवन्धनम् । व्यसन विपत्तिम् । आत्मन:-अपराध एव वृक्षस्तस्य एतानि फलानि ॥ १५४॥ एन-शाकुनिकम् । , अधृष्ट =विनीत । 'धृष्ट' इति पाठे निर्भय इत्यर्थः । स्वगृहे आत्मन एव गृहे। हिमत्राण-शीतरक्षा । स' कपोत । शुष्केषु पर्णेषु पावकं वह्निम् । पातयामास- तिचिक्षेप। तं-वहिम् ॥ १५९ ॥ सन्तापयस्व-वह्निना तापय ('तप लीजिए')। विश्रब्धं सविश्वासम् । विभव =धनम् , अन्नादि च । क्षुध-बुभुक्षाम् ॥ १६ ॥ भरते पालयति । ' 'धृष्ट' पा० । २ 'स गत्वाऽङ्गारकर्मान्तमानयामास पावक'मिति लिखितः पाठः सुन्दरः। अङ्गारकर्मान्त-महानसम् ।