पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[३ काको- 2 ! एकस्याप्यतिथेरन्नं यः प्रदातुं न शक्तिमान् । तस्याऽनेकपरिक्लशे गृहे किं वसतः फलम् ? ॥ १६२ ।। तत्तथा साधयाम्येतच्छरीरं दुःखजीवितम् । यथा भूयो न वक्ष्यामि नास्तीत्यर्थिसमागमे ॥ १६३ ॥ स निनिन्द किलात्मानं न तु तं लुब्धकं पुनः । उवाच-तर्पयिष्ये त्वां मुहूर्त प्रतिपालय' ॥ १६४ ॥ एवमुक्त्वा स धर्मात्मा प्रहृष्टनान्तरात्मना । तमग्नि सम्परिक्रम्य प्रविवेश स्ववेश्मवत् ॥ १६५ ।। ततस्तं लुब्धको दृष्वा कृपया पीडितो भृशम् । कपोतमग्नौ पतितं वाक्यमेतदभाषत ॥ १६६ ।। 'यः करोति नरः पापं न तस्यात्मा ध्रुवं प्रियः । आत्मना हि कृतं पापमात्मनैव हि भुज्यते ॥ १६७ ॥ सोऽहं पापमतिश्चैव पापकर्मरतः सदा । पतिष्यामि महाघोरे नरके नाऽत्र संशयः ॥ १६८ ॥ नूनं मम नृशंसस्य प्रत्यादर्शः प्रदर्शितः । प्रयच्छता स्वमांसानि कपोतेन महात्मना ।। १६९ ॥ अद्य प्रभृति देहं स्वं सर्वभोगविवर्जितम् । तोयं स्वल्पं यथा ग्रीष्मे शोषयिष्याम्यहं पुनः ॥ १७० ॥ शीतवातातपसहः कृशाङ्गो मलिनस्तथा । उपवासैर्बहुविधैश्चरिष्ये धर्ममुत्तमम् ॥ १७१॥ ततो यष्टिं शलाकां च जालकं पञ्जरं तथा । क्षुद्रस्य-निष्किञ्चनस्य । आत्माऽपि स्वशरीरमपि । अनेकपरिक्लेशे-नानाफ्लेश- संयुते । कि फलंडन किमपि फलमित्यर्थ. ॥ १६२ ॥ तत्-तस्मात् । तथा साधयामि तथा करोमि । मरिष्यामीति यावत् । दुःखं जीवितं जीवनं यस्य तत्तथाभूतम् । वक्ष्यामि कथयिष्यामि । अथिसमा- गमे-याचकसङ्गमे, तत्सन्निधौ ॥ १६३ ॥ अग्नि प्रविवेश-तत्रात्मानं जुहाव । ध्रुवम् अवश्यमेव । प्रत्यादर्श. निदर्श- नम् । (नमूना) ॥१६९॥ चरिष्ये आचरिष्यामि ॥ १७१ ॥ आता पीडिता।