पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[३ काको- पतिव्रता पतिप्राणा पत्युः प्रियहिते रता। यस्य स्यादीहशी भार्या धन्यः स पुरुपो भुवि ॥ १४४ ॥ न गृहं गृहमित्याहुहिणी गृहमुच्यते । गृहं हि गृहिणीहीनमरण्यसदृशं मतम् ॥ १४५ ।। पञ्जरस्था ततः श्रुत्वा भर्तुर्दुःखान्वितं वचः । कपोतिका सुसन्तुष्टा वाक्यञ्चेदमथाऽऽह सा ।। १४६ ।। 'नसास्त्रीत्यभिमन्तव्या यस्यां भर्ता न तुष्यति । तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः ॥ १४७॥ दावाग्निना विदग्धेव सपुष्पस्तबका लता। भस्मीभवतु सा नारी यस्यां भर्ता न तुष्यति ॥ १४८ ॥ मितं ददाति हि पिता मितं भ्राता मितं सुतः । अमितस्य हि दातारं भर्तारं का न पूजयेत्' ।। १४९ ।। पुनश्चाब्रवीत्- 'शृणुष्वाऽवहितः कान्त ! यत्ते वक्ष्याम्यहं हितम् । प्राणैरपि त्वया नित्यं संरक्ष्यः शरणागतः ॥ १५०॥ एष शाकुनिक: शेते तवावासं समाश्रितः । शीतार्तश्च क्षुधार्तश्च पूजामस्मै समाचर ।। १५१ ।। 1 श्रूयते च- यः सायमतिथि प्राप्तं यथाशक्ति न पूजयेत् । तस्यासौ दुष्कृतं दत्त्वा सुकृतं चापकर्पति ॥ १५२ ।। अभवत् । गृहिणी एव--गृहम्, नेष्टकादिरचितं वस्तुतो गृहमिति भावः। तदेव स्पष्टयति--गृहमिति ॥ १४५॥ दावाग्निदग्धेव अरण्यानलदग्धव । यथा- पुष्पादियुतापि वल्ली दावदग्धा न शोभते, एवं भर्तुरप्रियाऽपि नारीत्यर्थ स्तवक-गुच्छक ॥१४८ ॥ मितं परिमितम् । अवहित सावधान । संरक्ष्या संरक्षणीय । आवास गृहं, वृक्षञ्च । असौ अतिथिः । दुष्कृतं पापम् । सुकृतं-पुण्यम् ॥ १५२ ॥ १ 'यस्या.' इति पा०1