पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

२७५ अथवा-ये नृशंसा दुरात्मानः प्राणिनां प्राणनाशकाः । उद्वेजनीया भूतानां व्याला इव भवन्ति ते ॥ १३५ ।। स पञ्जरकमादाय पाशञ्च लगुडं तथा। नित्यमेव वनं याति सर्वप्राणिविहिंसकः ।। १३६ ॥ अन्येशुभ्रंमतस्तस्य वने कापि कपोतिका । जाता हस्तगता तां स प्राक्षिपत्पञ्जरान्तरे ।। १३७ ।। अथ कृष्णा दिशः सर्वा वनस्थस्याऽभवन्धनैः। वातवृष्टिश्च महती क्षयकाल इवाऽभवत् ।। १३८ ।। ' ततः स त्रस्तहृदयः कम्पमानो मुहुर्मुहुः । अन्वेषयन्परित्राणमाससाद वनस्पतिम् ।। १३९ ॥ मुहूर्त पश्यते यावद्वियद्विमलतारकम् । प्राप्य वृक्षं वदत्येवं योऽत्र तिष्ठति कश्चन-|| १४०॥ तस्याहं शरणं प्राप्तः स परित्रातु 'मामिति । शीतेन भिद्यमानं च क्षुधया गतचेतसम्' ।। १४१ ।। अथ तस्य तरोः स्कन्धे कपोतः सुचिरोषितः । भार्याविरहितस्तिष्ठन्विललाप सुदुःखितः ।। १४२ ।। 'वातवर्षो महानासीन्न चाऽऽगच्छति मे प्रिया । तया विरहितं घेतच्छून्यमद्य गृहं मम ॥ १४३ ।। शकुनिलुब्धक-पक्षिबन्धकः । (बहेलिया)। रौद्रेण=ळूरेण । उद्वेजनीया. उद्वेग- जनकाः।व्याला हिंस्रजन्तव । पजरक-पञ्जर (पिजरा) । घनै =मेधैः। वातवृष्टि = सवाता वृष्टिः। क्षयकाल प्रलय ॥१३८॥ परित्राणं-रक्षास्थानम् । वनस्पति 'वृक्षम् । विमलतारकं स्पष्टनक्षत्रम्। वियत्-गगनम्। मुहूर्त क्षण यावत् । पश्यते पश्यति । छान्दसः प्रयोगः। अत्र वृक्षे । गतचेतसंभ्रान्तचित्तम् । इति शब्दोऽत्रैव योज्य ॥ १४१॥ सुचिरोपितः-चिरकालानिवसन् । विलापमेवाह-वातेति । आसीत्- १ 'यावदास्ते मुहूत्तकं वियद्विमलतारकम् । स तु प्राप्याऽवद्दुच्या देवता शरणं मम । इति पाठा० । २'सुपिरोपित ' इति लिखिते पाठः स च सुन्दरः । सुषिर कोटरम् ।