पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४

  • पञ्चतन्त्रम् *

[३ काको- तारस्वरेण सर्पमस्तोत् । तदा सर्पश्चिरं वल्मीकद्वारान्तर्लीन एव ब्राह्मणं प्रत्युवाच-त्वं लोभादत्रागतः पुत्रशोकमपि विहाय, अतः परं तव मम च प्रीतिर्नोचिता, तव पुत्रेण यौवनोन्मदेनाहं ताडितः,मया स दष्टः। कथं मया लगुडप्रहारो विस्मर्तव्यः, त्वया च पुत्रशोकदुःखं कथं विस्मर्तव्यम् । इत्युक्त्वा बहुमूल्यं हीर- कमणिं तस्मै दत्त्वा-'अतः परं पुनस्त्वया नागन्तव्यम्'-इति पुनरुक्त्वा विवरान्तर्गतः। ब्राह्मणश्च मणिं गृहीत्वा पुत्रबुद्धिं निन्दनस्वगृहमागतः। अतोऽहं ब्रवीमि-चितिकां दीपितां पश्य-इति । तदस्मिन्हते ऽयत्नादेव राज्यमकण्टकं भवतो भवति ।' तस्यैतद्वचनं श्रुत्वा राक्षं पप्रच्छ-'भद्र ! त्वं तु किं मन्यसे ?' । सोऽब्रवीत्-'देव ! निर्दयमेतद्यदनेनाभिहितम् । यत्कारणं- 'शरणागतो न वध्यते ।' सुष्टु खल्विदमाख्यानम्- श्रूयते हि कपोतेन शत्रुः शरणमागतः । पूजितश्च यथान्यायं स्वैश्व मांसैनिमत्रितः ।। १३२ ॥ अरिमर्दनोऽब्रवीत्-'कथमेतत् ?' । क्रूराक्षः कथयति- ७. कपोतलुब्धककथा कश्चित्क्षुद्रसमाचारः प्राणिनां कालसन्निभः । विचचार महारण्ये घोरः शकुनिलुब्धकः ।। १३३ ।। नैव कश्चित्सुहृत्तस्य न सम्बन्धी न वान्धवः । स तैः सर्वः परित्यक्तस्तेन रौद्रेण कर्मणा ॥ १३४ ।। समीपे। तारस्वरेण उच्चैःशब्देन । वल्मीकद्वारान्तलीन. विलद्वारमध्यस्थो निगूढ एव । यौवनोन्मदेन यौवनवलदर्पितेन । अस्मिन्-स्थिरजीविनि शत्रुमन्त्रिणि । अयत्नात् अप्रयासात् । अकण्टकं कण्टकशून्यम् , शत्रुरहितम् । तस्य-रकाक्षस्य । यत्कारणम् अनौचित्ये हेतुः । (क्यों कि ) । आख्यानं कथा। निमन्त्रित भोजितः । क्षुद्रसमाचारः नीचवृत्तिः ।