पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२

  • पञ्चतन्त्रम् *

[३ काको- , पञ्च पश्वनृते हन्ति दश हन्ति गवानृते । शतं कन्याऽनृते हन्ति सहस्रं पुरुषानृते ॥१०७॥ उपविष्टः सभामध्ये यो न वक्ति स्फुटं वचः। तस्माद्दूरेण सा त्याज्या न्यायं वा कीर्तयेदृतम् ॥१०८।। तस्माद्विश्रब्धौ मम कर्णोपान्तिके स्फुट निवेदयतम् ।' किं बहुना-तेन क्षुद्रेण तथा तौ तूर्ण विश्वासितौ यथा तस्योत्सङ्ग- वर्तिनौ सञ्जाती। ततश्च तेनापि समकालमेवैकः पादान्तेना. क्रान्तः, अन्यो दंष्ट्राक्रकचेन च । एवं द्वावपि गतप्राणौ भक्षि- ताविति । अतोऽहं ब्रवीमि-'क्षुद्रमर्थपतिं प्राप्य-' इति 8 भवन्तोऽप्येनं दिवान्धं क्षुद्रमर्थपतिमासाद्य राज्यन्धाः सन्तः शशकपिञ्जलमार्गेण यास्यन्ति । एवं ज्ञात्वा यदुचितं तद्विधेयमतः परम् । अथ तस्य तद्वचनमाकर्ण्य 'साध्वनेनाभिहितम्-'इत्युक्त्वा- 'भूयोऽपि पार्थिवार्थ समेत्य मन्त्रयिष्यामहे'-इति ब्रुवाणाः सर्वे पक्षिणो यथाभिमतं जग्मुः। केवलमवशिष्टो भद्रासनोपविष्टो:- भिषेकाभिमुखो दिवान्धः कृकालिकया सहाऽऽस्ते । आह च- 'कः कोऽत्र भोः ? । किमद्यापि न क्रियते ममाभिषेकः । इति तच्छ्रुत्वा कृकालिकयाऽभिहितम्-'भद्र ! तवाभिषेके कृतोऽयं पश्वनृते-पशुविवादस्य मिथ्यानिर्णये कृते सति । पञ्च-पञ्च पशून्, हन्ति-तद्वध- पापभाग भवति । गवानृते= दशगोवधपापभाग भवति ॥ १९७ ॥ सभा-राजसभा ('कचहरी' )। तत्रोपविष्टो विद्वान् , साक्षी वा । स्फुट- अकपट, सत्यम् । तेन सभा वा त्यक्तव्या सत्यं वा वक्तव्यमित्यर्थः ॥ १०८ ॥ अत्र खण्डित इव पाठः । विश्रब्धौ जातप्रत्ययौ। निःशकी, तेन मार्जारेण । तूर्ण-त्वरितम् । उत्सङ्ग- वर्तिनो कोडान्तर्गतो, तेन-मार्जारेण । दंष्ट्राक्रकचेन-दंष्ट्राकरपत्रेण । भवन्तः= पक्षिणः । शशकपिजलमार्गेण तद्वत् मृत्युमार्गेण । तस्य-काकस्य। भूयोऽपि पुनः कदाचित् । समेत्य=मिलित्वा । मन्त्रयिष्यामहे-मन्त्रणा करिप्यामः । यथाभिमतं= स्वस्वस्थानम्। भद्रासनोपविष्टः सिंहासनासीन । अभिषेकाभिमुख' राज्या- ।