पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

२६१ NA वादो वर्तते, तद्धर्मशास्त्रद्वारेणाऽस्माकं निर्णयं कुरु । यो हीन- वादी स ते भक्ष्यः-' इति । स आह-भद्रौ! मा मैवं वदतं, निवृत्तोऽहं नरकपातकमार्गात् । अहिंसैच धर्ममार्गः। उक्तञ्च- अहिंसापूर्वको धर्मो यस्मात्सद्भिरुदाहृतः । यूकामत्कुणदशादींस्तस्मात्तानपि रक्षयेत् ॥ १०३ ॥ हिसकान्यपि भूतानि यो हिनस्ति स निघृणः । स याति नरकं घोरं कि पुनर्यः शुभानि च ॥१०४ ॥ एतेऽपि ये याज्ञिका यज्ञकर्मणि पशून्व्यापादयन्ति, ते मूर्खाः परमार्थ श्रुतेर्न जानन्ति। तत्र किलैतदुक्तम्-'अजैर्यष्टव्यम्-' इति । अजा व्रोहयस्तावत्सप्तवार्षिकाः कथ्यन्ते, न पुनः पशु- विशेषाः। उक्तञ्च- वृक्षांछित्त्वा पशून्हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्गे नरके केन गम्यते ! ॥ १०५।। तन्नाहं भक्षयिष्यामि, परं जयपराजयनिर्णयं करिष्यामि । किन्त्वहं वृद्धो दूराधुवयोर्भाषान्तरं सम्यङ्ग शृणोमि, एवं ज्ञात्वा मम समीपवर्तिनी भूत्वा ममाग्रे न्यायं वदतं, येन विज्ञाय विवा- परमार्थ वचो वदतो मे परलोकबाधो न भवति । उक्तञ्च यतः- मानाद्वा यदि वा लोभाक्रोधाद्वा यदि वा भयात् । यो न्यायमन्यथा ब्रूते स याति नरकं नरः॥१०६।। 1 - अस्माकमुपरि आक्रमण कुर्यात् । हीनवादी-दोषी। नरकपातक =नरकप्रद । यूका केशकीट । मत्कुण रक्तप , खटाकीट । (दश = मच्छड')॥१०३॥हिंस- कानि=सिंहसदीनि । निघृणः निर्दय । शुभानि अहिंसकानि, शर्शकमृगा- दीनि ॥ १०४ ॥ परमार्थ-रहस्यभूतमर्थम् । तत्र वेदे । सप्तवार्षिकाः सप्तभ्यो वत्सरेभ्य पूर्वमुत्पन्ना -पुराणा । एवं प्राणिहिंसया ॥ १०५ ॥ भाषान्तरम् वचनमुत्तरप्रत्युत्तररूपम् । न्यायम् अभियोगम् । विवादपरमार्थ विवादस्योचितं निर्णयकारकम् । न्याय=विवादनिर्णयम्। अन्यथा ब्रूते मिथ्या निर्दिशति । १ 'यस्मात्सर्वहिते रत' इति लिखितपुस्तकपाठः ।