पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ] * अभिनवराजलक्ष्मीविराजितम् * विघ्नो वायसेन, गताश्च सर्वेऽपि विहगा यथेप्सितासु दिक्षु, केवलमेकोऽयं वायसोऽवशिष्टः केनापि हेतुना तिष्ठति,तत्त्वरित. मुत्तिष्ठ येन त्वां स्वाश्रयं प्रापयामि ।' तच्छुत्वा सविषादमुलूको वायसमाह-'भो भो दुष्टात्मन् ! किंमया तेऽपकृतम् ? यदाज्याभिषेको मे विनितः । तदद्य प्रभृति सान्वयमावयोर्वैरं सातम् । उक्तञ्च- रोहति सायकैर्विद्धं छिन्नं रोहति चाऽसिनी । वाचा दुरुक्तं बीभत्सं न प्ररोहति वाक्क्षतम् ॥ १०९ ॥ -इत्येवमभिधाय कृकालिकया सह स्वाश्रयं गतः। अथ भयव्याकुलो वायसो व्यचिन्तयत्-'अहो! अकारणं वैरमासादितम् मया । किमिदं व्याहृतम् । उक्तञ्च- अदेशकालार्थमनायतिक्षम यदप्रियं लाघवकारि चात्मनः । यचोऽब्रवीत्कारणवर्जितं वैचो न तद्वचः स्याद्विषमेव तद्वचः ॥११०।। क्लोपपन्नोऽपि हि बुद्धिमान्नरः परं नयेन्न स्वयमेव वैरिताम् । भिषड्ममास्तीति विचिन्त्य भक्षयेदकारणात्को हि विचक्षणो विषम् ?|| परपरिवादः परिषदिन कथञ्चित्पण्डितेन वक्तव्यः । सत्यमपि तन्न वाच्यं यदुक्तमसुखावहं भवति ॥११२।। सुहृद्भिराप्तैरसकृद्विचारितं स्वयं च बुद्धथा प्रविचारिताश्रयम् । करोति कार्य खलु यः स बुद्धिमान् सएव लक्ष्म्या यशसां च भाजनम्॥ भिषेकोत्सुक । दिवान्धः-उलूकः । विप्नितः अवरुद्ध. । सान्वयं-वंशपरम्परा. सहितम् । रोहति-समीभवति । सायकैः बाणै. असिना खगन । वीभत्सं- भीषणम् , जुगुप्सितञ्च । 'वाक्क्षत'मित्यत्र 'वाकृत'मित्यपि पाठ• ॥ १०९ ॥ अदेशकालार्थ देशकालानुचितम् । अनायतिक्षमम् उत्तरकालेऽशुभप्रदम् । कारणवर्जितं निष्कारणम् । बलोपपन्न =बलिष्ठोपि । भिषक् वैद्य । मम-मत्स नधी। इति इति हेतोः। विचक्षण =विद्वान् ॥ १११ ॥ परिवादा निन्दा- वाक्यम् ॥११२॥ आप्त प्रामाणिकै । प्रविचारित आश्रयः मूलं यस्य तत् । लक्ष्म्या भाजनं-पात्रम् ॥ ११३ ॥ १ 'वन परशुना हतमिति पाठान्तरम् । २ 'यत्राबवीत्' पा० । ३ 'विचिन्त्यबुद्धया . मुहुरप्यवैम्यह' मिति लिखिते पाठ.। ४ 'हालहलं हि तद्विप'मिति पाठा० ।