पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८

  • पञ्चतन्त्रम्

[३ काको- ततश्च तत्र कोटरे कदाचिच्छीघ्रगो नाम शशकोऽस्तमनवेलाया- मागत्य प्रविष्टः, मयापि कपिञ्जलनिराशत्वेन न निवारितः। अथाऽन्यस्मिन्नहनि कपिजल: शालिभक्षणादतीवपीवरतनुः स्वमाश्रयं स्मृत्वा भूयोऽपि तत्रैव समायातः । अथवा साध्विदमुच्यते- नताहग्जायते सौख्यमपि स्वर्गे शरीरिणाम् । दारिन्धेऽपि हि याहस्यात्स्वदेशे स्वपुरे गृहे ॥९० ॥ अथाऽसौ कोटरान्तर्गतं शशकं दृष्ट्वा साक्षेपमाह-भोः शशक ! न त्वया सुन्दरं कृतं यन्ममाऽऽवसथस्थाने प्रविष्टोऽसि, तच्छीघ्र निष्क्रम्यताम् ।' शशक आह-'न तवेदं गृहं, किन्तु ममैव, तत्कि मिथ्या परुषाणि जल्पसि ? 5 वापीकूपतडागानां देवालयकुजन्मनाम् । उत्सर्गात्परतः स्वाम्यमपि कर्तुं न शक्यते ॥ ९१ ।। तथा च- प्रत्यक्षं यस्य यद्भुक्तं क्षेत्राचं दश वत्सरान् । तत्र भुक्तिः प्रमाणं स्यान्न साक्षी नाऽक्षराणि वा ।। ९२ ।। मानुषाणामयं न्यायो मुनिभिः परिकीर्तितः । तिरश्चां च विहङ्गानां यावदेव समाश्रयः ।। ९३ ॥ तन्ममैतद्गृहम्, न तव'-इति। कपिञ्जल आह-'भो !यदि स्मृति प्रमाणीकरोषि तदागच्छ मया सह, येन स्मृतिपाठकं पृच्छावः, पीवरतनुः स्थूलकायः । गृहे-स्वगृहे ॥९० ॥ साक्षेपं सनिन्दम् । सुन्दरम्, उचितम् । आवसस्थाने गृहप्रदेशे। निष्कम्यतां गम्यताम् । ('निकलो' )। परुषाणि फराणि। देवलयाः देवमन्दिराणि। कुजन्मानः वृक्षाः। उत्सर्ग - दानं । स्वाम्य-प्रभुत्वम् ॥ ९१ ॥ भुक्तम्-उपभुक्त। भुक्ति -उपभोगः ('कब्जा')। अक्षराणि लेखः । तिरश्वा मृगादीनाम् , पक्षिणाञ्च । न भुक्तिः प्रमाणं किन्तु- यावदेव-यावत्कालम् । समाश्रयः निवास एव प्रमाणम् ॥ ९३ ॥ तत्-शून्यस्य १ 'मानुषाणां प्रमाणं स्याद्भुक्ति दशवार्षिकी'-इति लिखिते पाठः ।