पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५७ लूकीयम् ] * अभिनवराजलक्ष्मीविराजितम् * शशकाश्च तद्दिनादारभ्य सपरिवाराः सुखेन स्वेषु स्थानेषु तिष्ठन्ति स्म। अतोऽह, ब्रवीमि-'व्यपदेशेन महताम्-'इति । ®। अपि च-क्षुद्रमलसं कापुरुपं व्यसनिनमकृतज्ञं पृष्ठप्रलपन- शीलं स्वामित्वेन नाभियोजयेज्जीवितकामः । उक्तञ्च- क्षुद्रमर्थपतिं प्राप्य न्यायान्वेपणतत्परौ।। उभावपि क्षयं प्राप्तौ पुरा शशकपिञ्जलौ ।। ८९ ॥ ते प्रोचुः-'कथमेतत् ? । स आह- २. शशक-कपिञ्जलकथा, कस्मिश्चिद॒क्षे पुराऽहमवसम् । तत्राधस्ताकोटरे कपिञ्जलो नाम चटकः प्रतिवसति स्म । अथ सदैवाऽस्तमनवेलायामागत- योद्धयोरनेकसुभाषितगोष्ट्या देवर्पिब्रह्मर्षिपुराणचरितकीर्तनेन च पर्यटनदृष्टानेककौतूहलप्रकथनेन च परमसुखमनुभवतोः कालो ब्रजति । अथ कदाचित्कपिञ्जलः प्राणयात्रार्थमन्यैश्चटकैः सहाऽन्यं पक्कशालिप्रायं देशगतः। ततो यावन्निशासमयेऽपि नायावस्तावदहं सोद्वेगमनास्तद्वियोगदुःखितश्चिन्तितवान्-'अहो! किमद्य कपिालो नायातः१, किं केनापि पाशेन वद्धः?, आहो. स्वित्केनापि व्यापादितः । सर्वथा यदि कुशली भवति तन्मां विना न तिष्ठति।' एवं मे चिन्तयतो वहून्यहानि व्यतिक्रान्तानि। निभृतं सविनयं यथा स्यात्तथा । क्षुद नीचं। व्यसनिनं व्यसनासक्तं, पृष्ठप्रल. पनशील-परोक्षेऽप्रियवादिनम् । अभियोजयेत् अभिषिञ्चेत, स्वीकुर्यात् । अर्थपतिम् निर्णेतारम्, स्वामिनञ्च ।न्यायान्वेपणतत्परौ न्यायाभिलाषिणौ। 'कपिञ्जल'इति चटकनामधेयम् ॥ ८९ ॥ सः काकः । अस्तमनवेलाया सायम् । देवर्षिब्रह्मर्षीणां यानि पुराणानि- चरितानि, तेषां कीर्तनेन=वर्णनेन । पर्यटनावसरे च यानि दृष्टानि-अनेककुतू- हलानि-नानाश्चर्याणि, तेषा प्रकथनेन । पक्कशालिप्रायं-सम्पन्नशालिवहुलं । कुशली-स्वस्थ.। 1 , । १ 'कपिजलो नाम तित्तिरि' इति पाठा० ।