पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

२५९ , स यस्य ददाति स गृह्णातु । तथानुष्ठिते मयापि चिन्तितम्-कि- मत्र भविष्यति ?, मया द्रष्टव्योऽयं न्यायः।' ततः कौतुकादह- मपि तावनु प्रस्थितः। अत्रान्तरे तीक्ष्णदंष्ट्रो नामाऽरण्यमार्जार- स्तयोर्विवादं श्रुत्वा मागोसन्नं नदीतटमासाद्य कृतकुशोपग्रहो निमीलितनयन ऊर्ध्वबाहुरर्धपादस्पृष्टभूमिः श्रीसूर्याभिमुख इमा धर्मोपदेशनामकरोत्- 'अहो! असारोऽयं संसारः, क्षणभङ्गुराःप्राणाः, स्वप्नसदृशः प्रियसमागमः । इन्द्रजालवत्कुटुम्बपरिग्रहोऽयम् । तद्धर्म मुक्त्वा नान्या गतिरस्ति । उक्तञ्च- अनित्यानि शरीराणि विभवो नैव शाश्वतः । नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसङ्ग्रहः ।। ९४ ।। यस्य धर्मविहीनानि दिनान्यायान्ति यान्ति च । लोहकारभरेव श्वसन्नपि न जीवति ।। ९५ ।। नाच्छादयति कौपीनं न दंशमशकापहम् । शुनः पुच्छमिव व्यर्थ पाण्डित्यं धर्मवर्जितम् ॥ ९६ ।। अन्यच- पुलाका इव धान्येषु पूतिका इव पक्षिषु । मशका इव म]पु येपां धर्मो न कारणम् ॥ ९७ ।। मयाश्रयणात् । स्मृतिपाठकं स्मृतितत्त्वज्ञम् । मया काकेन । द्रष्टव्य =अवश्यं दर्शनीय. । न्यायः अस्य निर्णय । तावनु-तयोः पृष्टतः । कृतकुशोपग्रह -गृही- तकुशमुष्टि । धर्मोपदेशना=धर्मोपदेशम्। ( व्याख्यान ) । क्षणभङ्गुराः आशु- विनाशिन. । स्वप्नसदृश. स्वप्नदृष्टवदतात्विक । इन्द्रजालं-मायानिर्मित पदार्थ- जातम् । मुक्त्वा=विहाय। विभवः सम्पत्ति । शाश्वतः-नित्य । धसङ्ग्रह =ध- र्मोपार्जनम् ॥ ९४ ॥ धर्मविहीनानि वर्मानुष्टानशून्यानि। भना=चर्मप्रसेविका । ('भाथी' ) । श्वसन्-वायुंमुञ्चन्नपि ॥ ९५॥ कौपीन गुह्य, स्त्रीपुरुषचिह-शि- इनयोन्यादि । 'कौपीनं स्यादकार्येपि चौरगुह्यप्रदेशयो रिति विश्व । पुलाक:-तुच्छधान्यभेदः। 'स्यात्पुलाकस्तुच्छधान्ये' इत्यमर.। पूतिका १ 'कूतिका' इति लिखितपुस्तकपाठ ।