पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ पञ्चतन्त्रम् । [ ३ काको- तिष्ठ मध्यगतो नित्यं युद्धाय कृतनिश्चयः । जीवन्सम्प्राप्स्यसि क्ष्माऽन्तं मृतो वा स्वर्गमेष्यसि ॥५०॥ अन्यच्च- वलिनापि न बाध्यन्ते लघवोऽप्येकसंश्रयाः । विपक्षणापि मरुता यथैकस्थानवीरुधः ।। ५१ ॥ महानप्येकको वृक्षो बलवान्सुप्रतिष्ठितः । प्रसदैव हि वातेन शक्यो धर्षयितुं यतः ॥५२॥ अथ चे संहताः वृक्षाः सर्वतः सुप्रतिष्ठिताः । न ते शीघ्रण वातेन हन्यन्ते ोकसंश्रयात् ॥ ५३॥ एवं मनुष्यमप्येकं शौर्येणापि समन्वितम् । शक्यं द्विपन्तो मन्यन्ते हिंसन्ति च ततः परम् ॥५४॥ -एवं प्रजीविमन्त्रः। इदमासनसज्ञकम् । एतत्समाकर्ण्य चिरञ्जीविनं प्राह-'भद्र! त्वमपि स्वाभिप्राय वद'। सोऽब्रवीत्-'देव ! पाडण्यमध्ये मम संश्रयः सम्यक् प्रतिभाति । तत्तस्यानुष्ठानं कार्यम् । उक्तञ्च- पाठः । सह. समर्थ.। वीवधः धान्यादिप्राप्तिः । आसारः मित्रबलम् । 'धान्या- देवविधः प्राप्तिरासारस्तु सुहृद्वल मिति यादव.। (प्राकार = शहर पनाह')। परिखा-खेयम् । (ताई ) ॥ ४९ ॥ क्ष्मान्तं-पृथिव्यन्तं, भूमण्डलं । 'तिष्ठेन्म- ध्यगतो नित्य' मिति पूर्वार्धे, 'जीवन् स लप्स्यते कीर्ति मृत. स्वर्गमवाप्स्यती'- त्युत्तरार्धे च पाठान्तरम् ॥ ५० ॥ एकसंश्रया एकाश्रया. । 'एकसंश्रया'दित्यपि पाठः। विपक्षण-शत्रुभूतेन। वीरुधः प्रतानिन्यो लता ॥५१॥ एकक = एकाकी । सुप्रतिष्ठित:-सुदृढ. । प्रसह्य हठात् । धर्षयितुम् उत्पाटयितुम् ॥५२॥ संहता बहवो मिलिता.। हि-यतः। एकसंश्रयात्-मिलितत्वात् । एक- स्थानस्थितत्वात् ॥ एकम् एकाकिनम् । शक्यं जेतुं शक्यम् ॥५४॥ संश्रयः= बलवदाश्रयणम् । षाडण्यं-सन्धि-विग्रह-याना-सन-द्वैधीभाव-संश्रया गुणाः षट्। तेजस्वी कोशसैन्यप्रभावशाली, तेजोयुक्तश्च । निर्वाते-सहायभूतपवन- १ 'जीवन्स लप्स्यते कोत्तिं मृतःस्वर्गमवाप्स्यति' । पा० । २ 'उक्त' ।