पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् १ अभिनवराजलक्ष्मीविराजितम् * २४३ तद्बलवताऽभियुक्तस्यापसरणसमयोऽय, न सन्धेर्विग्रहस्य च ।' एवमनुजीविमन्त्रोऽपसरणस्य । अथ तस्य वाक्यं समाकर्ण्य प्रजीविनमाह-भद्र ! त्वमप्या- स्मनोऽभिप्रायं वद। सोऽब्रवीत्-'देव! मम सन्धिविग्रहयानानित्रीण्यपि न प्रति- भान्ति । विशेषतश्चाऽऽसनं प्रतिभाति । उक्तञ्च यतः- नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कषति । स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥ ४४ ।। अन्यच्च- अभियुक्तो बलवता दुर्गे तिष्ठेत्प्रयत्नवान् । तत्रस्थः सुहृदाह्वानं प्रकुर्वीताऽऽत्ममुक्तये ॥ ४५ ॥ यो रिपोरागमं श्रुत्वा भयसन्त्रस्तमानसः । स्वं स्थानं सन्त्यजेत्तत्र न स भूयो विशेन्नरः ।। ४६ ॥ दंष्ट्राविरहितः सर्पो मदहीनो यथा गजः । स्थानहीनस्तथा राजा गम्यः स्यात्सर्वजन्तुषु ॥४७॥ निजस्थानस्थितोऽप्येकः शतं योद्धं सहेन्नरः । शक्तानामपि शत्रूणां, तस्मास्थानं न सन्त्यजेत् ॥४८॥ तस्माहुर्ग दृढं कृत्वा वीवधाऽऽसारसंयुतम् । प्रकारपरिखायुक्तं शस्त्रादिभिरलङ्कृतम् ॥ ४९॥ गर्व । तस्य-वलीयस शत्रो । वाञ्छित स्वविनाशरूपमभिलाषम् ॥४३॥न प्रति- भान्ति-न रोचन्ते। (अच्छे नहीं लगते हैं) आसनम् स्वदुर्गे एव स्थित्वा शत्रु- प्रहारैरात्मरक्षणम् । नक =जलचरविशेष । स्वस्थानं स्वदुर्ग जलादिकम् । स्थानात् सरोवरादे.। शुना-कुकुरेणापि ॥४४॥ अभियुक्त आक्रान्त । प्रयत्नवान् सर्वोपकरणादियुक्त, सावधानः। तत्रस्था-दुर्गस्थ एव ।। आत्म- मुक्तये-स्वरक्षणाय ॥४५॥ भागमम् आगमन । तत्र-तस्मिन् राष्ट्रे । दिशे= प्रविशेत् । 'वसेच्च स'इति पाठे तु-आधिपत्य कुर्यादित्यर्थ ॥ ४६॥ दष्ट्रा-आशी । गम्य-पराभवयोग्यः। दम्य इति केचित्पठन्ति॥४७॥ शक्कानामपि शत्रूणा शतं योद्धु सहेत्-शक्नुयात् । 'सही नर' इत्यपि १ 'विशेषतश्च यानं'-इति पा० । २ 'यन्त्रप्राकार परिखाशरादिभिरलङ्कृत'मिति ।'