पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम्

  • अभिनवराजलक्ष्मीविराजितम् *

२४५ 2 असहायः समर्थोऽपि तेजस्वी कि करिष्यति । निर्वाते ज्वलितो वह्निः स्वयमेव प्रशाम्यति ॥ ५५ ॥ सङ्गतिः श्रेयसी पुसां स्वपक्षे च विशेषतः । तुपैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ॥५६॥ तदत्रैव स्थितेन त्वया कश्चित्समर्थः समाश्रयणीयो-यो विपत्प्रतीकार करोति । यदि पुनस्त्वं स्वस्थानं त्यक्त्वाऽन्यत्र यास्यसि, तत्कोऽपि ते वाड्मात्रेणापि सहायत्वं न करिष्यति । उक्तञ्च ( यतः)- वनानि दहतो वह्नः सखा भवति मारुतः । स एव दीपनाशाय, कृशे कस्यास्ति सौहृदम् ! ॥ ५७ ।। अथवा नैतदेकान्तं, यदलिनमेकं समाश्रयेत् । लघूनामपि संश्रयो रक्षायै एव भवति । उक्तञ्च यतः- सङ्घातवान्यथा वेणुर्निविडो वेणुभिर्वृतः । न शक्यः स समुच्छेत्तुं दुर्वलोऽपि तथा नृपः ।। ५८ ॥ यदि पुनरुत्तमसंश्रयो भवति-तत्किमुच्यते ? । उक्तञ्च- महाजनस्य सम्पर्कः कस्य नोन्नतिकारकः । पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ।। ५९ ।। शून्ये । 'निवाते' इति पाठान्तरम् ॥ ५५ ॥ सङ्गति =सम्पर्कः, संश्लेषश्च । 'संहरति'रिति गौडा पठन्ति । स्वपक्षे स्ववर्गाणाम् । प्ररोहन्ति उद्भवन्ति ॥५६॥ अत्रैव-स्वदुर्ग एव। विपत्प्रतीकार-विपत्तिनाशम् । सहायत्व-सहायताम् । रहे =अलवतोऽग्ने । स एव मारुत एव । दीपस्य-निर्बलस्य तेजसो-नाशाय। कृशे निर्वले । सौहृदं स्नेह ॥ ५७ ॥ एकान्त=निश्रय । सङ्घातवान् वेणुसद्धसमावृतः । वेणु -वंश । निबिड %= निरन्तर । समुच्छेत्तुम् उत्पाटयितुम् । उत्तम श्रेष्ठ । महाजनस्य श्रेष्ठस्य । सम्पर्क =संश्रय । मुक्ताफलश्रिय-मौक्तिकशोभाम् ॥ ५९ ॥ १ दीर्घायुष' पा०॥