पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

२३९ कौर्म सङ्कोचमास्थाय प्रहारानपि मर्षयेत् । प्राप्त काले च मतिमानुत्तिष्ठेत्कृष्णसर्पवत् ॥ २० ॥ आग्रहं विग्रहं मत्वा सुसाम्ना प्रशमं नयेत् । विजयस्य ह्यनित्यत्वाद्रभसं च समुत्सृजेत् ॥ २१॥ तथा च-'बलिना सह योद्धव्य' मिति नास्ति निदर्शनम् । प्रतिवातं नहि घनः कदाचिदुपसर्पति ।। २२ ।। एवमुजीवी साममन्त्रं सन्धिकारं कृप्तवान् । अथ तच्छ्रुत्वा सञ्जीविनमाह-'भद्र! तवाभिप्रायमपि श्रोतु- मिच्छामि।' स आह-देव! न ममैतत्प्रतिभाति यच्छत्रुणा सह सन्धिः क्रियते। उक्तञ्च यतः- शत्रुणा न हि सन्दध्यात्सुश्लिष्टेनापि सन्धिना । सुतप्तमपि पानीयं शमयत्येव पावकम् ।। २३ ।। अपरञ्च-स क्रूरोऽत्यन्तलुब्धो धर्मरहितः, तत्त्वया विशेषान्न सन्धेयः । उक्तञ्च यतः- सत्यधर्मविहीनेन न सन्दध्यात्कथञ्चन । सुसन्धितोऽप्यसाधुत्वादचिराद्याति विक्रियाम् ॥ २४ ॥ तस्मात्तेन सह योद्धव्यमिति मे मतिः। उक्तञ्च यतः- क्रूरो लुब्धोऽलसोऽसत्यः प्रमादी भीरुरस्थिरः । मूढो युद्धावमन्ता च सुखोच्छेद्यो भवेद्रिपुः ॥ २५॥ 'भाग्रह विग्रहे त्यक्त्वा तं साना प्रशमं नये'दिति गौडाः पठन्ति । तं कलहम् । रभसं-युद्धौत्सुक्यं, चाञ्चल्यं वा ॥ २१ ॥ निदर्शनम् उदाहरणम् । प्रतिवातं वायुसम्मुखम् । घन: मेघः ॥२२॥ सन्धिकारं-सन्धिसाधकम् ।क्लृप्त- वान्-निश्चितवान् । सुश्लिष्टेन अतिदृढेन, स्वानुकूलेनापि ॥२३॥ विशेषात् विशेषतः। असा धुत्वात् दुष्टत्वात् । विक्रियां-विकारम् ॥ २४ ॥ लुब्धः लोभी। अलसः निरु १ 'काले काले' इति पाठान्तरम् ।