पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४०

  • पञ्चतन्त्रम् *

[ ३ काको- अपरं-तेन पराभूता वयं, यद्यदि सन्धानकीर्तनं करिष्यामः, स भूयोऽत्यन्तं कोपं करिष्यति । उक्तञ्च- चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया । स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति ? ॥ २६ ॥ सामवादाः सकोपस्य शत्रोः प्रत्युत दीपकाः। प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥ २७ ॥ यच्चैष वदति-रिपुर्बलवान् इति । तदप्यकारणम् । यत उक्तञ्च- उत्साहशक्तिसम्पन्नो हन्याच्छनु लघुर्गुरुम् । यथा कण्ठीरवो नागे, सुसाम्राज्यं प्रपद्यते ।। २८ ।। मायया शत्रवो वध्या अवध्याः स्युर्बलेन ये । यथा स्त्रीरूपमास्थाय हतो भीमेन कीचकः॥२९॥ तथा च-मृत्योरिवोपदण्डस्य राज्ञो यान्ति वशं द्विषः ।। शष्पतुल्यं हि मन्यन्ते दयालुं रिपवो नृपम् ॥ ३०॥ प्रयात्युपशमं यस्य तेजस्तेजस्वितेजसा। वृथा जातेन किं तेन मातुर्योवनहारिणा ? ॥ ३१ ॥ त्साह । अस्थिरः चञ्चलः। मूढः मूर्ख । युद्धावमन्ता-शान्तिप्रियः। सुखो- च्छेद्य =सुखं यथास्यात्तथा नाशयितुं शक्य ॥ २५ ॥ सन्धानकीर्तनं सन्धि- चर्चाम् । चतुर्थोपायसाध्ये युद्धसाध्ये । अपक्रिया अनुचितः प्रतीकारः। स्वेद्यम्-स्वेदाहम् । आमज्वरम् आमदोषोत्थितं ज्वरम् । अम्भसा जलेन, कः परिषिञ्चति-न कोपीत्यर्थः ॥ २६ ॥ सामवादाः-सान्त्ववचनानि । दीपका =उत्तेजका. । प्रतप्तस्य घृतस्य जल- विन्दवो यथा उद्दीपका एवेति भाव ॥ २७ ॥ वदति । 'उज्जीवी मन्त्री'ति शेष । सोत्साहेति । उत्साहसहितया शक्तथा युत । 'उत्साहे'तिपाठेऽर्थ सरल एव। कण्ठीरव =सिंहः । लघुरपि गुरुं नाग-गजं यथा हन्ति । 'नागे' इति पाठान्तरम् । साम्राज्यं विजयचक्रवर्तित्वं, प्रपद्यते लभते ॥ २८ ॥ उग्रदण्ड- स्य तीक्ष्णदण्डस्य । द्विष.-रिपव. । शष्यतुल्यं-घासाङ्गुरसदृशं । 'शष्पं वालतृणं घास.' इत्यमरः ॥ ३० ॥ तेजस्वितेजसा वलवत्तेजसा । यस्य तेज प्रशाम्यति १ 'सर्वे ते हन्तुमिच्छन्ति दयालु रिपवश्व तम्' इति पा० ।