पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८

  • पञ्चतन्त्रम् *

[३ काको- सन्दिग्धो विजयो युद्धे संमेनापि हि युध्यताम् । उपायत्रितयादूज़ तस्मायुद्धं समाचरेत् ।। १२ ।। असन्दधानो मानान्धः समेनापि हतो भृशम् । आमकुम्भ इवान्येन करोत्युभयसवयम् ? ॥ १३ ।। समं शक्तिमता युद्धमशक्तस्य हि मृत्यवे । दृषत्कुम्भमिवाऽभित्वा नावतिष्ठेत शक्तिमान् ।। १४ ।। अन्यच्च-भूमिर्मित्रं हिरण्यं वा विग्रहस्य फलत्रयम् । नास्त्येकमपि यद्येषां विग्रहं न समाचरेत् ।। १५ ॥ खनन्नाखुबिलं सिहः पाषाणशकलाकुलम् । प्राप्नोति नखभङ्ग वा फलं वा मूपको भवेत् ॥ १६॥ तस्मान्न स्यात्फलं यत्र पुष्टं युद्धं तु केवलम् । तत्र स्वयं तदुत्पाद्य कर्त्तव्यं न कथञ्चन ।। १७ ।। बलीयसा समाक्रान्तो वैतसीं वृत्तिमाचरेत् । वाञ्छन्नभ्रंशिनी लक्ष्मी न भौजङ्गीं कदाचन ।। १८ ॥ कुर्वन्हि वैतसी वृत्तिं प्राप्नोति महतीं श्रियम् । भुजङ्गवृत्तिमापन्नो वधमर्हति केवलम् ।। १९ ।। उपायत्रितयादूर्ध्व-सामदानभेदाख्योपायत्रयवैफल्ये एव ॥ १२ ॥ मानान्धः- अभिमानान्धः । अस्फुटोयं श्लोकः ॥ १३ ॥ शक्तिमता समं बलवता सह युद्ध निर्बलस्य मृत्युमेव फलं ददाति । दृषत् प्रस्तरः । यथा शिलया सह मृद्धटस्य -संघर्षे घटो नश्यति, तथा वलिना युद्ध निर्बलो हन्यत इत्यर्थः ॥१४॥ हिरण्यं- प्रभूतं धनम् । आखुविलं - मूषकबिलं । पाषाणशकलैः शिलाखण्डै.। आकुलं- -व्याप्तम् । फलं-नखाना पाषाणैर्भगः, मूषकस्य क्षुदस्य लाभो वा। यत्र-युद्ध। पुष्टं विपुलं । तत्-युद्धम् । उत्पाद्य-स्वयमुत्थाप्य ॥१७॥ वैतसी वेत्रसदृशी-नम्राम् । वेतसा हि जलवेगे समागते नमन्ति । भुजङ्गस्य इय-भौजङ्गी, तां-सर्पवदुद्धता- वृत्तिम् । अभ्रंशिनी स्थिराम् ॥१८॥ कूर्मस्यायं कौमः, तं कौर्म-कच्छपाश्रितं । सङ्कोचं स्वाइसकोचेन प्रहारमर्पणम् । आस्थाय-स्वीकृत्य ॥ २० ॥ १ जनानामिहे ति पाठा०। २ ‘ामकुम्भमिवामित्त्वा नावतिष्ठेत शक्तिमा'निति पाठे-शक्तिमान् जलादिः, आमम् अपकम् । ३ श्लोकोयमशुद्ध इवाऽऽभाति । ४ 'क्रमाद्वैतसवृत्तिस्तु' इति पाठः । !