पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लूकीयम् ] * अभिनवराजलक्ष्मीविराजितम् * अथ स मेघवर्णोऽन्वयागतानुज्जीविसञ्जीव्यनुजीविप्रजीवि. चिरञ्जीविनाम्नः पञ्च सचिवान्प्रत्येकं प्रष्टुमारब्धवान् । तत्रैतेषामादौ तावदुज्जीविनं पृष्टवान्-'भद्र ! एवं स्थिते किं मन्यते भवान् ?'। स आह-राजन् ! चलवता सह विग्रहो न कार्यः, यथा स बलवान्कालप्रहर्ता च-तस्मात्सन्धानीयः। उक्तश्च यतः- बलीयसे प्रणमतां काले प्रहरतामपि। सम्पदो नापगच्छन्ति प्रतीपमिव निम्नगाः॥७॥ तथा च सन्न्यायो धार्मिकश्चात्यो भ्रातृसङ्घातवान्बली । अनेकविजयी चैव सन्धेयः स रिपुर्भवेत् ॥ ८॥ सन्धिः कार्योऽप्यनार्येण विज्ञाय प्राणसंशयम् । प्राणैः संरक्षितैः सर्व राज्यं भवति रक्षितम् ॥९॥ येनानेकयुद्धविजयी स-तेन विशेषात्सन्धेयः। उक्तञ्च- अनेकयुद्धविजयी सन्धानं यस्य गच्छति । तत्प्रभावेण तस्याशु वशं गच्छन्त्यरातयः ॥१०॥ सन्धिमिच्छेत्समेनापि सन्दिग्धो विजयो युधि । 'न हि सांशयिकं कुर्या'दित्युवाच बृहस्पतिः ।। ११ ॥ अन्वयागतान वंशपरम्परागतान् । उज्जीविन-तन्नामान मन्त्रिणम् । 'उद्दीपी ति पाठान्तरम् । स्थिते उपस्थिते । मन्यते अतिविधानं मन्यते । स = उलूकराज । कालप्रहर्ता-अवसरप्रहर्ता। वलीयसे रिपी प्रणताना, सत्यवसरे तत्र प्रहरताञ्च राज्ञां सम्पदो न नश्यन्ति । प्रतीपं विपरीतं । निम्नगा-नद्य॥७॥ सन्याय: नीतिकुशल, न्यायकर्ता च । आत्य =धनी। अनेकविजयी= संग्रामविजयी । सन्धेय.-सन्धिनोपायेन साध्य ॥८॥ स-उलूकराज । तत्प्रभावेण अनेकयुद्धविजयिप्रभावेण, तस्य-निर्बलस्यापि राज्ञ । वश गच्छन्ति, वशीभवन्ति ॥१०॥ समेनसमवलेनापि । यतो युधि विजय सन्दिग्ध एव, सन्दिग्धं च कर्म नोचितमित्यर्थ. ॥११॥