भेद:]
- अभिनवराजलक्ष्मीविराजितम् *
. अशनादिन्द्रियाणीव स्युः कार्याण्यखिलान्यपि । एतस्मात्कारणाद्वित्तं सर्वसाधनमुच्यते ।। ८॥ अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते । त्यक्ता जनयितारं स्वं निःस्वं गच्छति दूरतः ।। ९ ॥ गतवयसामपि पुंसां येपामा भवन्ति ते तरुणाः। अर्थेन तु ये हीना वृद्धास्ते यौवनेऽपि स्युः ॥१०॥ स चार्थः पुरुषाणां षड्भिरुपायैर्भवति-भिक्षया, नृपसेवया, कृषिकर्मणा, विद्योपार्जनेन, व्यवहारेण, वणिकर्मणा वा । सर्वेपामपि तेषां वाणिज्येनाऽतिरस्कृतोऽर्थलाभ' स्यात् । उक्तञ्च यत:- कृती भिक्षाऽनेकैर्वितरति नृपो नोचितमहो ! कृपिः क्लिष्टा, विद्या गुरुविनयवृत्त्याऽतिविपमा । कुसीदादारिद्रय परकरगतग्रन्थिशमना- न मन्ये वाणिज्यात्किमपि परमं वर्तनमिह ॥१॥ उपायानाञ्च सर्वेपामुपायः पण्यसङ्ग्रहः । धनार्थ शस्यते टेकस्तदन्यः संशयात्मकः ।।१२।। मभिवाञ्छन् । जीवलोक -प्राणिसङ्घ । नि स्व-निर्धनं । जनयितारं-पितर- मपि । गतवयसा वृद्धानाम् । दरिद्रास्तु यौवनेऽपि वृद्धा, स्युरित्यन्वय ॥१०॥ व्यवहार =कुसीदार्थ धनादिदानम् । वणिकर्मणा देशान्तरादितो वस्तून्या- दाय देशान्तरे विक्रयादिना । तेषाम् पूर्वोक्तपिायाना मध्ये । अतिरस्कृत = जेष्ठ, अनुपहतश्च । कृतेति । भिक्षुकाणामाधिक्यात् यथेच्छं धनलाभो न भवतीत्यर्थ.। उचितं= यथेप्सितं, न वितरति न ददाति । गुरुषु विनय , तेन या वृत्ति =वर्तनं, तया विषमा कठिना । गुरुकुलवासक्लेशबहुलेति यावत् । कुसीदं धनवृद्धि [ व्याज 'सूद'] 1. परेपा, करेषु गतो यो ग्रन्थि =मूलधनं, तस्य शमनं विनाशः, तस्मात् , अन्यहस्तगतधनस्य प्रायो दुर्लभत्वादित्याशय । वर्त्तनं जीवनोपायं १ 'हता मिक्षा ध्वाक्षैपिचलति नृपाणामपि मन ' इति लिखिते पाठान्तरम् । तत्र-ध्वालाभिक्षुका. । 'ध्वाज. काके वकेऽणिनि' इति हैमात् ।