पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- तच वाणिज्यं सप्तविधमर्थागमाय स्यात् । तद्यथा- (१) गान्धिकव्यवहारः (२) निक्षेपश्वेशः (३) गौष्ठिककर्म (४) परिचितग्राहकागमः (५) मिथ्याक्रयकथनं, (६) कूट- तुलामानम्, (७) देशान्तराद्भाण्डानयनञ्चेति । उक्तञ्च- पण्यानां गान्धिकं पण्यं, किमन्यैः काञ्चनादिभिः । यत्रैकेन च यत्क्रीतं तच्छतेन प्रदीयते ।।१३।। निक्षेपे पतिते हh श्रेष्ठी स्तौति स्वदेवताम् । निक्षेपी म्रियते, तुभ्यं प्रदास्याम्युपयाचितम् ॥१४॥ न मन्येन श्रेष्ठं मन्ये ॥ पण्यानां-विक्रेयवस्तूना, संग्रह. सञ्चयः । तदन्य= कुसीदादि ॥ १२ ॥ अर्थागमाय-धनलाभाय । गन्ध. पण्यमस्य-गान्धिक, तस्य व्यवहार = व्यवसाय , धातुरसौषधसुगन्धद्रव्यादिविक्रय इति यावत् । निक्षेपप्रवेश.-कुसी- दादिलोभेन परैर्दत्तानां धनाना स्वनिकटे स्थापनं । ['धरोहर रखना' 'दूसरे के रुपए जमा करना' 'आभूषण आदि रखकर रुपए ऋण देना' आदि ] । गोष्ठे नियुक्तो गौष्ठिक , तस्य कर्म। राजभाण्डागाराधिकारादिना-[ 'भण्डारी 'मोदी' 'वोहरा' ] गवाध्यक्षतया वा धनागम । परिचिताना-चिरविश्वस्ताना। ग्राहका- णांकेतृणाम् । आगम =निरन्तरं समागम । [“नामी बनिया" ] । मिथ्या- क्रयकथनं अल्पमूल्यस्य रत्नादेमिथ्यैव महार्घत्वख्यापनं, विक्रयश्च । केचित्तु- मिथ्यैव क्रयार्थ ग्राहकप्रोत्साहनं, 'क्रयणीयमिदं शीघ्रं महर्घ भविष्यती'त्याहु । ('शीघ्र खरीद लीजिए, अन्यथा यह महंगा हो जायगा' )। सप्तविधमर्थोपायं पृथक्पृथक्स्तौति-पण्यानामिति । कूट-कपटघटितं तुला- मानं-तुलामानसाधनादिकं । मानबाट' 'वटखरा' इति लोके । ['टण्डी मारना' 'पासंग' 'कम वटखरा रखना] । देशान्तरात्-द्वीपान्तरादित., भाण्डानयन= विक्रेयद्रव्यानयनम् । ( वाहर से माल लाना, मंगाना)। पण्याना=विक्रेयद्रव्याणा मध्ये, गान्धिकं सुगन्धिद्रव्यमौषधादिकञ्च ['इन' आदि] पण्यं। श्रेष्टमिति शेप.। यत्र गान्धिकव्यवहारे, एकेन रूप्यकादिना, यत्-वस्तु, क्रीतमानीतञ्च, तत् शतेन शतरूप्यकै । प्रदीयते 'ग्राहकेभ्य' इति शेष. ।। १३ ॥ 'नियता'।