- पञ्चतन्त्रम् *
[१ मित्र- ३६..... तद्यथानुश्रूयते-अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र धर्मोपार्जितभूरिविभवो वर्द्धमानको नाम वणि- पुत्रो बभूव । तस्य कदाचिद्रात्रौ शय्यारूढस्य चिन्ता समु. त्पन्ना, यत्-प्रभूतेऽपि वित्तेऽर्थोपायाश्चिन्तनीयाः, कर्तव्याश्चेति यत उक्तश्च- न हि तद्विद्यते किञ्चिद्यदर्थेन न सिद्धयति । यत्नेनै मतिमांस्तस्मोदर्थमेक प्रसाँधयेत् ॥ २ ॥ यस्याऽर्थास्तस्य मित्राणि, यस्याऽस्तिस्य बान्धवाः । यस्यार्थाः स पुमाँल्लोके, यस्याऽर्थाः स च पण्डितः ॥ ३ ॥ न सा विद्या न तदानं न तच्छिल्पं न सा कला । न तत्स्थैर्य हि धनिनां याचकैयन्न गीयते ॥ ४ ॥ इह लोके हि धनिनां परोऽपि सुजनायते । स्वजनोऽपि दरिद्राणां सर्वदा, दुर्जनायते ॥५॥ अर्थेभ्योऽपि, प्रवृद्धेभ्यः संवृत्तभ्यस्ततस्ततः । प्रवर्तन्ते क्रियाः सर्वाः पर्वतेभ्य इवाऽऽपगाः ॥ ६॥ पूज्यते यदपूज्योऽपि, यदगम्योऽपि गम्यते । वन्द्यते यदद्वन्द्योऽपि, स प्रभावो धनस्य च ।। ७ ।। जम्बुकेन-शृगालेन ( गीदड, सियार ) ॥१॥ धर्मेणोपार्जितो भूरि विभवो येनासौ-धर्मोपार्जितभूरिविभव =सदुपायलब्धधनराशि । वणिक्पुत्र =वैश्य । शय्यारूढस्य पर्यकविश्रान्तस्य । चिन्तामेवाह-यदिति । (यत्= कि)। प्रभूते= प्रचुरे। अर्थोपाया =धनार्जनोपाया. । एक केवलं । प्रसाधयेत् उपार्जयेत् । स्थैर्य-गाम्भीर्यादिकम् । (सुजन इवाचरति-) सुजनायते आत्मीयभावमवल- म्बते । दुर्जनायतेक्लेशप्रदो भवति । प्रवृद्धभ्य -वाणिज्यादिना सञ्चितेभ्य । संवृत्तेभ्य -तत्तत्कर्मसु यज्ञादिपु सम्यग्विनियुक्तेभ्यः। यद्वा-ततस्तत. संवृत्तेभ्यः नानोपायरुपलब्धेभ्यः। अत एव-प्रवृद्धेभ्यः वृद्धि प्राप्तेभ्य इत्यर्थ । गौडास्तु-तत संवृत्तेभ्य =नानामार्गळय- मुपगच्छय इत्यर्थमाहु । आपगा' नद्यः । अशनात् भोजनात् । अर्थार्थी धन-