पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्ति ] और अभिनवराजलक्ष्मीविराजितम् * २२७ तथा च-सकृदुक्तं न गृह्णाति, स्वयं वा न करोति यः । यस्य सम्पुटिका नास्ति, कुतस्तस्य सुभाषितम् ?॥१७॥ अथैकस्मिन्नहनि गोष्ठोसमये चित्राङ्गो नायातः। अथ ते व्याकुलीभूताः परस्परं जल्पितुमारब्धाः-'अहो! किमद्य सुहन्न समायातः १, कि सिंहादिभिः क्वापि व्यापादितः ? उत लुब्धकैः?, अथवा अनले प्रपतितो, गर्तविषमे वा नवतृणलौल्यात्' ?-इति । अथवा साध्विमुच्यते- स्वगृहोद्यानगतेऽपि हि स्निग्धैः पापं विशङ्कयते मोहात् । किमु दृष्टबह्वपायप्रतिभयकान्तारमध्यस्थे ? ॥१७६॥ अथ मन्थरको वायसमाह-'भो ! लघुपतनक! अहं हिर- ण्यकश्च तावद् द्वावप्यशक्तौ तस्यान्वेषणं कर्त्त-मन्दगतित्वात् , तद्गत्वा त्वमरण्यं शोधय-यदि कुत्रचित्तं जीवन्तं पश्यसि । तदाकर्ण्य लघुपतनको नातिदूरे यावद्गच्छति तावत्पल्वल- तीरे चित्राङ्गः कूटपाशनियन्त्रितस्तिष्ठति । तं दृष्ट्वा शोकन्याकु- लितमनास्तमवोचत्-भद्र ! किमिदम् ?' । चित्राङ्गोऽपि वायस- मवलोक्य विशेषेण दुःखितमना बभूव । अथवा युक्तमेतत्- अपि मन्दत्वमापन्नो नष्टो वाऽपीष्टदर्शनात् । प्रायेण प्राणिनां भूयो दु:खावेगोऽधिको भवेत् ॥ १७७॥ अव्यम् ॥ १७४ ॥ सम्पुटिका-सुभाषितरत्नमञ्जूषा । सुभाषितसङ्ग्रह । तत्पुस्तक- मिति यावत् । ( सम्पुटिका मुभाषित-सन्दूख' कापी ) अनले वह्नौ । गत विषमेश्वभ्रवहुलप्रदेशे। नवतृणलौल्यात् घासाङ्कुरलालसया। पापम् अमङ्गलम्। दृष्टा ये बहव -अपाया =विपत्तय ,तै प्रतिभये भयानके। कान्तारस्य दुर्गम- वर्त्मन-मध्यस्थिते-सुहृदि-अमङ्गलाशङ्काया किमु -किं वक्तव्यम् । अवश्यमेव बनगते सुहृदि शङ्का भवत्येवेति भाव ॥ १७६ ॥ शोधय-यथावद्विलोकय । त-चित्राझं मृगम् । नातिदूरे किञ्चिद्दरे। पल्व- लतीरे अल्पजलसरस्तीरे। कूटाख्ययन्त्रस्य पाशैः-नियन्त्रितःबद्ध.। मन्दः १ 'लोलोद्यानगतेऽपि हि सहसा पाप विशङ्कयते वन्धौ' पा० ।