पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[२ मित्र- भयत्रस्तो नरः श्वासं प्रभूतं कुरुते मुहुः । दिशोऽवलोकयत्येव, न स्वास्थ्यं व्रजति क्वचित् ॥ १७१ ॥ तच्छ्रुत्वा चित्राङ्ग आह-'भो मन्थरक! ज्ञातं त्वया सम्यङ् मे त्रासकारणम् । अहं लुब्धकशरप्रहारादुद्धारितः कृच्छ्रेणात्र समायातः। मम यूथं तैलुब्धकैप्पादितं भविष्यति। तच्छर- णागतस्य मे दर्शय किञ्चिदगम्यं स्थानं लुब्धकानाम् । तदाकर्ण्य मन्थरक आह-भोश्चित्राङ्ग! श्रूयतां नीतिशास्त्रम्- द्वावुपायाविह प्रोक्तौ विमुक्तौ शत्रुदर्शने। हस्तयोश्चालनादेको, द्वितीयः पादवेगजः ।। १७२ ।। तद्गम्यतां शीघ्रं सघनं वनम् , यावदनापि नागच्छन्ति ते दुरात्मानो लुब्धकाः। अत्रान्तरे लघुपतनकः सत्वरमभ्युपेत्यो वाच-'भो मन्थरक ! गतास्ते लुब्धकाः स्वगृहोन्मुखाः-प्रचुर मांसपिण्डधारिणः । तच्चित्राङ्ग ! त्वं विश्रब्धो वनाद्वहिर्भव।' ततस्ते चत्वारोऽपि मित्रभावमाश्रितास्तस्मिन्सरसि मध्याह्न- समये वृक्षच्छायाया अधस्तात्सुभाषितगोष्टीसुखमनुभवन्तः सुखेन कालं नयन्ति । अथवा युक्तमेतदुच्यते- सुभाषितरसास्वादबद्धरोमाञ्चकञ्चकाः । विनापि सङ्गमं स्त्रीणां सुधियः सुखमासते ॥ १७३ ।। सुभाषितमयद्रव्यसङ्ग्रह न करोति यः । स तु प्रस्तावयज्ञेषु कां प्रदास्यति दक्षिणाम् ?॥ १७४ ॥ 'फॅचा')। उद्घान्तदृष्टया चकितत्रस्तदृष्टया । स्वास्थ्यं स्थैर्यम् ।। १७१॥ उद्धारितः दैवात्संरक्षित । विमुक्तौ-विमुक्तये, प्राणरक्षणाय । हस्तयो. श्चालनात् सम्मुखयुद्धरूप. । पादवेगज. पलायनात्मकः ॥ १७२ ॥ विश्रब्धः- निश्शङ्कः । सुभाषितरसास्वादेन बद्धः-धृतः-रोमाञ्च एव कन्चुको यैस्ते-सुधिय : विद्वांस. । स्त्रीसङ्गं विनापि परं सुखमनुभवन्ति । स्त्रीसङ्गमे सुभाषितास्वादे च रोमाञ्चो भवति । 'सुख' मिति क्रियाविशेषणम् ॥ १७३ ॥ प्रस्तावयज्ञेषु सुभाषितप्रसङ्गरूपे यज्ञे। तत्र यज्ञे सुभाषितमेव हि दक्षिणा-