पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८

  • पञ्चतन्त्रम् *

[२ मित्र- ततश्च बाष्पावसाने चित्राङ्गो लघुपतनकमाह-'भो मित्र । सञ्जातोऽयं तावन्मम मृत्युः, तद्युक्तं सम्पन्नं यद्भवता सह मे दर्शनं सञ्जातम् । उक्तञ्च- प्राणात्यये समुत्पन्ने यदि स्यान्मित्रदर्शनम् । द्वयोः सुखप्रदं तच्च जीवतोऽपि मृतस्य च ॥ १७८ ।। तत्क्षन्तव्यं यन्मया प्रणयात्सुभाषितगोष्ठीष्वभिहितम् । तथा हिरण्यकमन्थरको मम वाक्याद्वाच्यौ- 'अज्ञानाज्ज्ञानतो वापि दुरुक्तं यदुदाहृतम् । तत्क्षन्तव्यं युवाभ्यां मे कृत्वा प्रीतिपरं मनः' ।। १७९ ।। तच्छ्रुत्वा लघुपतनक आह-'भद्र ! न भेतव्यमस्मद्विधैर्विद्य- मानैः। यावदह द्रुततरं हिरण्यक गृहीत्वाऽऽगच्छामि । अपरं सत्पुरुषा भवन्ति ते व्यसने न व्याकुलत्वमुपयान्ति । उक्तञ्च- सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् । तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥१८० ।। एवमुक्त्वा लघुपतनकश्चित्राङ्गमाश्चास्य यत्र हिरण्यक- मन्थरको तिष्ठतस्तत्र गत्वा सर्व चित्राङ्गपाशपतनं कथितवान् । हिरण्यकञ्च चित्राङ्गपाशमोक्षणं प्रति कृतनिश्चयं पृष्ठमारोप्य भूयोऽपि सत्वरं चित्राङ्गसमीपे गतः। सोऽपि मूषकमवलोक्य किञ्चिजीविताशया संश्लिष्टे आह- विनष्टो वा दु.खवेगः-इष्टस्य=प्रियजनस्य, दर्शनात्-भूयोऽपि वर्द्धत इत्यर्थ. । ॥ १७७ ॥ बाष्पावसाने विलापाश्रुसमाप्तौ । सञ्जात =सञ्जात एव । सम्पन्न जातम् । ('ठीक हुआ')। प्राणात्यये प्राणनाशे। द्वाभ्यांद्वयोः । द्वाभ्यां प्रकाराभ्या वा । जीवतः सुखं सुहृद्दर्शनात्, मृत्युमापन्नस्यापि सुखं-मित्रदर्शनादेवेत्याशयः ॥ १७८ ॥ प्रणयात् स्नेहात् । दुरुक्तम् दुर्वचनम् । उदाहृतम्-उक्तम् । व्यसने विपत्तौ । भुवनत्रयस्य तिलक भूषणमिव श्रेष्ठम् । विरलं-कञ्चिदेव ॥ १८०॥ भूयोऽपि १'तद्वाभ्यां सुखदं पश्चाजीवतोऽपि मृतस्य च' पा० । २ 'सहृष्ट.' ।