पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[२ मित्र- यद्दष्ट्रानखलाङ्गुलप्रहरणः सिहो वनं गाहते तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्त्यात्मनः ॥ १२६ ॥ अर्थहीनः परदेशे गतोऽपि यः प्रज्ञावान्भवति स कथञ्चि- दपि न सीदति । उक्तञ्च- कोऽतिभारः समर्थानां ?, कि दूरं व्यवसायिनाम् ? । को विदेशः सविद्यानां ?, कः परः प्रियवादिनाम् ? ॥ १२७ ॥ तत्प्रज्ञानिधिर्भवान्न प्राकृतपुरुपतुल्यः । अथवा- उत्साहसम्पन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेष्वसक्तम् । शूरं कृतज्ञं दृढसौहृदञ्च लक्ष्मीः स्वयं यौति निवासहेतोः ॥१२८।। अपरं प्राप्तोऽप्यर्थ. कर्मप्राप्त्या नश्यति ! तदेतावन्ति दिनानि त्वदीयमासीत् । मुहूर्तमप्यनात्मीयं भोक्तुं न लभ्यते । स्वयमा- गतमपि विधिनाऽपह्रियते । अर्थस्योपार्जनं कृत्वा नैवाऽभाग्यः समश्नुते । अरण्यं महदासाद्य मूढः सोमिलको यथा ॥ १२९ ।। हिरण्यक आह-'कथमेतत् ?' । स आह- ५. सोमिलकगुप्तधनोपभुक्तधनकथा । कस्मिश्चिद्धिष्ठाने सोमिलको नाम कौलिको वसति स्म । स चानेकविधपट्टरचनारञ्जितानि पार्थिवोचितानि वस्त्राण्युत्पा- तम् । दंष्ट्रानखलाडलप्रहरण सिंह -यद्वनं गाहते श्रयते, तस्मिन्नेव वने हत- गजरुधिरै. स्वतृष्णां शमयतीत्यर्थ ॥ १२६ ॥ प्रज्ञावान् पण्डित । सीदति-क्लिश्यते । प्रनानिधि =अतिवुद्धिमान् । प्राकृत = साधारण. । अदीर्घसूत्रम् अचिरक्रियम् । 'दीर्घसूत्रश्चिरक्रिय' इत्यमर ॥१२८॥ कर्मप्राप्त्या अदृष्टवशात् । 'कर्माऽप्राप्त्येति केचित्पठन्ति । फलप्रदकर्माभावा- -दिति च तदर्थः । तत्-धनम् । विधिना भाग्येन । अधिष्टाने नगरे । पट्टरचना विविधाकृतिमनोहरश्रेष्टवस्त्ररचना । काष्ठ- १ 'प्रहरणै' रिति पाठे उपलक्षणे तृतीया । तैर्युत इत्यर्थः । २ 'मार्गति वासहेतोः' पा० ।