पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्ति ]

  • अभिनवराजलक्ष्मीविराजितम् *

- दयति परं तस्य चानेकविधपट्टरचनानिपुणस्यापि न भोजना- च्छादनाभ्यधिकं कथमप्यर्थमात्रं सम्पद्यते । अथान्ये तत्र सामान्यकौलिकाः स्थूलवस्त्रसम्पादनविज्ञानिनो महर्द्धिसम्पन्नाः। तानवलोक्य स स्वभार्यामाह-'प्रिये ! पश्यैतान्स्थूलपट्ट- कारकान्धनकनकसमृद्धान् । तदधारणकं ममैतत्स्थानम् । तद- न्यत्रोपार्जनाय गच्छामि ।' सा प्राह-'भोःप्रियतम मिथ्या प्रलपितमेतद्यदन्यत्र गतानां धनं भवति, स्वस्थाने न भवतीति । उक्तञ्च- उत्पतन्ति यदाकाशे निपतन्ति महीतले । धरण्यन्तमपि प्राप्ता नाऽदत्तमुपतिष्ठति ॥ १३० ।। तथाच- न हि भवति यन्न भाव्यं, भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति यस्य तु भवितव्यता नास्ति ॥१३॥ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पुराकृतं कर्म कर्तारमनुगच्छति ॥ १३२ ॥ शेते सह शयानेन गच्छन्तमनुगच्छति । नराणां प्राक्तनं कर्म तिष्ठत्यथ सहात्मना ।। १३३ ।। यथा छायातपौ नित्यं सुसम्बद्धौ परस्परम् । एवं कर्म च कर्ता च संश्लिष्टावितरेतरम् ।। १३४ ।। यन्त्ररचना वा । ( 'छापा' )। तया रञ्जितानि (रंग बिरंगे छपे हुए )। पार्थिवो- चितानि-राजोपभोगार्हाणि । पट्टरचनानिपुणस्य श्रेष्टवस्त्र निर्माणचतुरस्य । नाना- विधवस्त्ररजनदारुयन्त्रैर्वस्त्ररक्षनकर्मणि चतुरस्य वा । तत्र अधिष्ठाने । धनसमृ- द्धान्-महाधनिन । अधारणकम् अननुकूलम् । अशुभम् । उत्पतन्तीति । आकाशपातालपृथिव्यन्तेषु भ्रमताऽपि पूर्वजन्मोपाजिताति- रिक्त न लभ्यते इत्यर्थः ॥ १३०॥ विन्दरि लभते। पुराकृतं-पूर्वजन्मार्जि- तम् । आत्मना सह तिष्ठति आत्मानं न जहाति ॥ १३३ ॥ (छायातपौ= १ "उत्पतौऽप्यन्तरिक्ष गच्छतोऽपि महीतलम् । धावतः पृथिवी सर्वा नाऽदत्तमुपतिष्ठति ॥” इति पा० । 7