पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्तिः]

  • अभिनवराजलक्ष्मीविराजितम् *

- वित्तनाशो [विदेशवासश्च ] ते सातस्तत्र विपये लन्तापो न कर्तव्यः । उक्तञ्च- अभ्रच्छाया खलप्रीति सिद्धसन्नञ्च योपितः । किञ्चित्कालोपभोग्यानि यौवनानि धनानि च ।। १२० ।। अत एव विवेकिनो जितात्मानो धनस्पृहां न कुर्वन्ति । उक्तश्च- सुसञ्चितैर्जीवनवत्सुरक्षितैर्निजेऽपि देहे न नियोजितै क्वचित् । पुंसो यमाऽन्तं व्रजतोऽपि निष्ठुरैरेतैर्धनैः पञ्चपदी न दीयते॥१२१।। अन्यच्च- यथाऽऽभिपं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि । आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् ॥ १२२ ॥ निर्दोपमपि वित्ताढ्यं दोषैर्योजयते नृपः । निर्धन प्राप्तदोपोऽपि सर्वत्र निरुपद्रवः ॥ १२३ ।। आर्थानामर्जने दुःखमर्जितानाञ्च रक्षणे । नाशे दुःख व्यये दु.खं, धिगर्थान्कष्टसंश्रयान् ।। १२४ ।। अर्थार्थी यानि कष्टानि मूढोऽयं सहते जनः । शतांशेनापि मोक्षार्थी तानि चेन्मोक्षमाप्नुयात् ।। १२५ ॥ अपरं विदेशवासजमपि वैराग्यं त्वया न कार्य । यतः- को धोरस्य मनस्विनः स्वविपयः १, को वा विदेशः स्मृतो, यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् । २४ विरोधत' इति पठन्ति ॥ ११९ ॥ अभ्रच्छाया मेघच्छाया। सिद्ध पक्कम् । किञ्चिदिति । शीघ्रमेव धनयोवनादिक विनश्यतीत्यर्थ ॥१२०॥ जितात्मानः वशीकृतेन्द्रिया । नियोजित स्वशरीरार्थमपि न व्ययीकृतै । यमान्तं यमराज- सन्निधि । पञ्चपदी-पञ्चपदान्यपि सह तेन न गम्यत इत्यर्थ ॥१२१॥ आमिष मासम् । 'तानि चेत्-मोक्षार्थी सहते' इति सम्बन्ध ॥ १२५॥ स्वविषय:- स्वदेश । न कोपीत्यर्थ । श्रयते-आश्रयते । बाहुप्रतापार्जितम् बाहुबलोपार्जि-