पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्प्राप्ति.]

  • अभिनवराजलक्ष्मीविराजितम् *

२०९ सह शयनतलमाश्रितया तदङ्गसंस्पर्शसञ्जातहरोमाञ्चितगात्रयो- क्तम्-'युष्मदर्शनमात्रानुरक्तया भयात्मा प्रदत्तोऽयं, त्वद्वर्ज- मन्यो भर्ता मनस्यपि मे न भविष्यति' इति । तत्कस्मान्मया सह न ब्रवीपि ?' । सोऽब्रवीत्-'प्राप्तव्यमर्थ लभते मनुष्यः।' इत्युक्ते तया 'अन्योऽयमिति मत्वा धवलगृहादुत्तार्य मुक्तः। स तु खण्डदेवकुले गत्वा सुप्तः। अथ तत्र कयाचित्स्वैरिण्या दत्त सङ्केतको यावद्दण्डपाशिकः प्राप्तः, तावदसौ पूर्वसुप्तस्तेन दृष्टो रहस्यसंरक्षणार्थमभिहितश्च-'को भवान् ?' । सोऽब्रवीत्-'प्राप्त- व्यमर्थ लभते मनुष्यः।' इति श्रुत्वा दण्डपाशिकेनाभिहितं यत्- 'शून्यं देवगृहमिदं, तदत्र मदीयस्थाने गत्वा स्वपिहि ।' तथा प्रतिपद्य स मतिविपर्यासादन्यशयने सुप्तः। अथ तस्य आरक्षकस्य कन्या विनयवती नाम रूवयौवनसम्पन्ना कस्यापि पुरुषस्या- ऽनुरक्ता-सङ्केतं दत्त्वा तत्र शयने सुप्ताऽऽसीत् । अथ सा तमायान्त दृष्ट्वा स एवायमस्मद्वल्लभ' इति रात्री धनतरान्धकारव्यामोहितोत्थाय भोजनाच्छादनादिक्रियां कार- यित्वा गान्धर्व विवाहेनात्मानं विवाहयित्वा तेन समं शयने स्थिता । विकसितवदनकमला तमाह-'किमद्यापि मया सह विश्रब्धं भवान्न ब्रवीति ? | सोऽब्रवीत् 'प्राप्तव्यमर्थ लभते मनुष्यः'। इति श्रुत्वा तया चिन्तितम्-'यत्कार्यमलमीक्षितं क्रियते तस्येवफलविपाको भवति' इति । एवं विमृश्य सविपादया तया निःसारितोऽसौ । सच यावद्वीथीमार्गेण गच्छति तावदन्यविषयवासी वरकीर्ति- धवलगृह-सौध । (महल)। स =मदभिलषित । आश्वस्तचित्तया विश्वस्तचित्तया। मया राजपुत्र्या। आत्मा देह । त्वद्वर्ज-त्वा विहाय। खण्डदेवकुले अपूर्णदेव- मन्दिरे, जीर्णमन्दिरे वा । स्वैरिण्या व्यभिचारिण्या। दत्तसङ्केतक =कृतसङ्केत । दण्डपागिक नगररक्षकसेनाध्यक्ष ('फौजदार' 'कोतवाल')। प्रतिपद्य-स्वीकृत्य । मतिविपर्यासात् भ्रान्त्या। आरक्षकस्य-दण्डपाशिकस्य । इति इत्थं मत्वा । धनतरान्धकारव्यामोहिता=गाढान्धकारेणोपहतलोचनशक्तिभ्रममुपगता, वञ्चिता। विश्रब्धं सस्नेहं, निर्भयञ्च । असमीक्षितम् असम्यग्विचारितं सत् । सविषादया=