पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१०

  • पञ्चतन्त्रम् *

[२ मित्र- नाम वरो महता वाद्यशब्देनागच्छति । प्राप्तव्यमर्थोऽपि तैः सह गन्तुमारब्धवान् । अथ यावत्प्रत्यासन्ने लग्नसमये राजमार्गासन्नश्रेष्टिगृहद्वारे रचितमण्डपवेदिकायां कृतकौतुकमङ्गलवेशा वणिक्सुता तिष्ठति, तावन्मदमत्तो हस्त्यारोहकं हत्वा प्रणश्यजनकोलाहलेन लोक- माकुलयंस्तमेवोद्देशं प्राप्तः । तं च दृष्ट्वा सर्वे वरानुयायिनो वरेण सह प्रणश्य दिशो जग्मुः। अथास्मिन्नवसरे भयतरललोचना. मेकाकिनी कन्यामवलोक्य माभैषोः-अहं परित्राता'-इति सुधीर स्थिरीकृत्य दक्षिणपाणी सङ्गृह्य महासाहसिकतया प्राप्तव्यमर्थः परुषवाक्यहस्तिनं निर्भसितवान् । ततः कथमपि दैवयोगादपयाते हस्तिनि यावत्ससुहृद्वान्धवो वरकीर्तिरतिक्रान्ते लग्नसमये समागच्छति तावद्वधूरन्येन हस्ते गृहीता तिष्ठति । तद् दृष्ट्वा वरकीर्तिनाऽभिहितम्-'भोः श्वशुर! विरुद्धमिदं त्वयाऽनुष्ठितं यन्मह्यं प्रदाय कन्याऽन्यस्मै प्रदत्ता'- इति । सोऽब्रवीत्-'भोः! अहमपि हस्तिभयपलायितो भवद्धिः सहाऽऽयातो-न जाने किमिदं वृत्तम् ? । इत्यभिधाय दुहितरं प्रष्टुमारब्धवान्-'वत्से ! न त्वया सुन्दरं कृतम्, तत्कथ्यतां कोऽयं वृत्तान्तः । दुःखितया। वीथीमार्गेण नगररथ्यामार्गेण । अन्यविषयवासी देशान्तरनिवासी। वरः वैवाह्यः ('दुलहा' 'बीन्द' )। तैः वरपक्षीयैः । लग्नसमये विवाहलग्न- समये । राजमार्गासन्नधेष्ठिगृहद्वारे-राजपथनिकटवत्तिधनिगृहद्वारे । (मण्डप = 'मांडा'। वेदिका = 'वेदी' ) कृतकौतुकमङ्गलवेशा रचितविवाहोचितमङ्गल वेशा। हस्ती-गजः। आरोहकं महामात्रम् । ('महावत')। प्रणश्यता पलायमानानां लोकाना कोलाहलेन-कलकलेन । 'प्रणश्यति पाठे प्रणश्य= पलाय्येत्यर्थः । (भाग कर )। लोक-नगरवासिजनम्। उद्देशं स्थानम् । प्रणश्य-प्रपलाय्य ('भागकर')। दिशो जग्मुः यत्रतत्र गता। भयेन तरले चञ्चले लोचने यस्यास्ताम् । परित्राता रक्षकः। सुधीरं महता १'प्रणश्य पा०।