पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८

  • पञ्चतन्त्रम् **

[२ मित्र- भिहिता-'हले' ! यथा किलाऽनेन सह समागमो भवति तथाऽद्य त्वया यतितव्यम्' । एवं श्रुत्वासा सखी तत्सकाशं गत्वा शीघ्र- मब्रवीत्-'यदहं चन्द्रवत्या तवान्तिकं प्रेषिता, भणितञ्च त्वां प्रति तया-यत्-'मम त्वदर्शनान्मनोभवेन पश्चिमावस्था कृता, तद्यदि शीघ्रमेव मदन्तिके न समेष्यसि तदा मे मरणं शरणम् ।' इति श्रुत्वा तेनाभिहितम्-यदवश्यं मया तत्रागन्तव्यं, तत्कथय केनोपायेन प्रवेष्टव्यम् ?' । अथ सख्याभिहितम्-'रात्रौ सौधावलम्वितया दृढवरत्रया त्वया तत्रारोढव्यम् ।' सोऽब्रवीत्-'यद्येवं निश्चयोभवत्यास्तदह- मेवं करिष्यामि।' इति निश्चित्य सखी चन्द्रवतीसकाशं गता। अथागतायां रजन्यां स राजपुत्रः स्वचेतसा व्यचिन्तयत्- 'अहो! महदकृत्यमेतत् । उक्तश्च- 'गुरोः सुतां मित्रभार्या स्वामिसेवकगेहिनीम् । यो गच्छति पुमाँल्लोके तमाहुब्रह्मघातिनम्' ।।११४॥ अपरञ्च- अयशः प्राप्यते येन, येन चाऽपगतिर्भवेत् । स्वार्थाच्च भ्रश्यते येन, तत्कर्म न समाचरेत् ॥ ११५ ॥ -इति सम्यग्विचार्य तत्सकाशं न जगाम । अर्थ प्राप्तव्यमर्थः पर्यटन्धवलगृहपाच रात्राववलम्बितवरत्रां दृष्ट्वा कौतुकाविष्ट हृदयस्तामालम्ब्याऽधिरूढः। तया च राजपुच्या 'स एवाय'- मित्याश्वस्तचित्तया स्नानखादनपानाच्छादनादिना संमान्य तेन अनेन राजपुत्रेण । मनोभवेन-मदनेन । पश्चिमा कामस्यान्तिमा दशा नष्ट- चेष्टत्वादिरूपा । सदन्तिके मन्निकटे । तत्र-राजपुत्रीसन्निधौ । सौधाव- लम्बितया राजप्रासादावलम्विन्या । वरत्रा-स्थूला रजु । ('बही 'मोटी रस्सी' 'कमन्द')। अकृत्यम्-अनुचितं कर्म। गेहिनी-पत्नी। गच्छति सेवते ॥ ११४ ॥ तत् व्यभिचारादि दुष्टं कर्म ॥११५॥ तत्सकाशं इन्दुमतीसन्निधौ। १ 'सखि' पा० । २ 'स्वर्गाच' । पा०।