पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- खल्वहम्, अथ द्वावपि गत्वा तत्स्थानं यावत्खनतस्तावद्रिक्तं भाण्डं दृष्टवन्तौ। अत्रान्तरे पापबुद्धिः शिरस्ताडयन्प्रोवाच-'भो धर्म- वुद्धे ! त्वया हृतमेतद्धनं नान्येन, यतो भूयोऽपि गर्ताऽऽपूरणं कृतम् ! तत्प्रयच्छ मे तस्याऽर्धम् । अथवाऽहं राजकुले निवेद- यिष्यामि। स आह- -'भो दुरात्मन् ! मैवं वद,-धर्मवुद्धिः नैतञ्चौरकर्म करोमि । उक्तञ्च- मातृवत्परदाराणि, परद्रव्याणि लोष्टवत् । आत्मवत्सर्वभूतानि वीक्षन्ते धर्मवुद्धयः' ।। ४३५ ।। एवं द्वावपि तौ विवदमानौ धर्माधिकारिणं गतौ-प्रोचतुश्च परस्परं दूषयन्तौ । अथ धर्माधिकरणाऽधिष्ठितपुरुषैर्दिव्यार्थे यावनियोजितौ तावत्पापबुद्धिराह-'अहो ! न सम्यग्दृष्टोऽयं न्यायः । उक्तञ्च- विवादेऽन्विष्यते पत्रं तदभावेऽपि साक्षिणः । साक्ष्यभावात्ततो दिव्यं प्रवदन्ति मनीषिणः ॥ ४३६ ।। तदत्र विपये मम वृक्षदेवताः साक्षीभूतास्तिष्ठन्ति, ता अप्यावयोरेकतरं चौरं साधु वा कथयिष्यन्ति ।' अथ तैः सर्वे रभिहितम्-'भोः !युक्तमुक्तं भवता । उक्तञ्च- एवं यथा तुभ्यं रोचते तथा । सीदामः-क्लेशमनुभवाम । यत इति । यदि चौरेण हृतं स्यात्तदा पुनर्गर्त्तपूरणं तेन न कृतं स्यात् । त्वयैवैतदपहृतमतो गतपूरणं त्वया चौर्यगोपनाय कृतमित्यर्थ । तस्य-हृतस्य धनस्य । लोप्ट'-मृत्ख- ण्डम् । वीक्षन्ते पश्यन्ति ॥ ४३५॥ धर्माधिकारी=विवादनिर्णता, ('जज' )। धर्माधिकरणम् राजकुलम् । (कचहरी 'अदालत')। दिव्यार्थे अग्निस्पर्श-भुजङ्ग- प्रण-तुलारोहण - विपपानाद्यन्यतमत्पदिव्यशपथकरणाय । नियुक्त =आदिष्ट. । न सम्यग्दृष्ट. न यथावन्निीत (ठीक फैसला नहीं हुआ) विवादे कलहे('मुकद्दमा')। पत्रं लेख । अन्विष्यते-प्रमाणतया अन्विष्यते गृह्यतेच । 'साक्षिण:-अन्विष्यन्ते'- १ 'धर्माधिकरणं । २ 'धर्माधिकरणि । ३ 'करिष्यन्ति । पा०।