पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6 भेद.]

  • अभिनवराजलक्ष्मीविराजितम् *

१५९ नुज्ञातः शुभेऽहनि देशान्तरं प्रस्थितः । तत्र च धर्मबुद्धिप्रभावेण भ्रमता पापबुद्धिना प्रभूततरं वित्तमासादितम् । ततश्च द्वावपि तौ प्रभूतोपार्जितद्रव्यौ प्रहृष्टौ स्वगृहं प्रत्यौत्सुक्येन निवृत्तौ । तथाच- प्राप्तविद्यार्थशिल्पानां । देशान्तरनिवासिनाम् । क्रोशमात्रोऽपि भूभागः शतयोजनवद्भवेत् ।। ४३२ ।। अथ स्वस्थानसमीपवर्तिना पापबुद्धिना धर्मबुद्धिरभिहितः- 'भद्र । न सर्वमेतद्धनं गृहं प्रति नेतुं युज्यते, यतः कुटुम्बिनो बान्धवाश्च प्रार्थयिष्यन्ते, तत्रैव वनगहने क्वापि भूमौ निक्षिप्य किञ्चिन्मात्रमादाय गृहं प्रविशावः । भूयोऽपि प्रयोजने सजाते तन्मात्रं समेत्याऽस्मात्स्थानान्नेष्यावः। उक्तञ्च- न वित्तं दर्शयेत्प्राज्ञः कस्य चित्स्वल्पमप्यहो!। मुनेरपि यतस्तस्य दर्शनाच्चलते मनः ॥ ४३३ ॥ यथाऽऽमिपं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि । आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् ॥ ४३४ ॥ तदाकर्ण्य धर्मवुद्धिराह-'भद्र ! एवं क्रियताम् ।' तथानुष्ठिते द्वावपि तौ स्वगृहं गत्वा सुखेन संस्थितवन्तौ। अथाऽन्यस्मि- नहनि पापबुद्धिर्निशीथेऽटव्यां गत्वा तत्सर्वं वित्तं समादाय गर्त पूरयित्वा स्वभवनं जगाम । अथाऽन्येधुर्धर्मबुद्धि समभ्येत्य प्रोवाच-सखे ! वहुकुटुम्बा वयं वित्ताभावात्सोदामः, तद्गत्वा तत्र स्थाने किञ्चिन्मात्रं धनमानयावः।' सोऽब्रवीत्-'भद्र! एवं क्रियताम् !' प्रभूततर-विपुलं । वित्त-धनम् । आसादितम्-उपाजितम् । औरसुक्येन-उत्कण्ठया । प्राप्ता अर्था विद्या शिल्प च यैस्तेषा=कृतकृत्या- नाम् । भूभाग. प्रदेश । सजाते उपस्थिते । तन्मात्रम् अवशिष्टं धनं । 'ताव- न्मात्र' मिति पाठे यथावश्यकमित्यर्थः । तस्य वित्तस्य ॥४३३॥आमिष मासं। श्वापदै =हिस्रजन्तुभि । तथा सर्वत्र वित्तवान् । 'भक्ष्यते' इति शेष ॥ ४३४ ॥