पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- अप्यात्मनो विनाशं गणयति न खलः परव्यसनहृष्टः । प्रायो मस्तकनाशे समरमुखे नृत्यति कवन्धः ।। ४२८ ॥ अहो ! साध्विमुच्यते- धर्मबुद्धिः कुबुद्धिश्च द्वावेतौ विदितौ मम । पुत्रेण व्यर्थपाण्डित्यात्पिता धूमेन घातितः ॥ ४२९ ।। दमनक आह-कथमेतत् ? । सोऽब्रवीत्- १९. धर्मबुद्धि-पापबुद्धि-कथा कस्मिश्चिदधिष्ठाने धर्मबुद्धिः पापवुद्धिश्चेति द्वे मित्रे प्रति- वसतः स्म । अथ कदाचित्पापबुद्धिना चिन्तितम्-'अहं ताव. मूल् दारियोपेतश्च, तदेनं धर्मबुद्धिमादाय देशान्तरं गत्वाऽ- स्याश्रयेणार्थोपार्जनं कृत्वैनमपि वञ्चयित्वा सुखी भवामि ।' अथान्यस्मिन्नहनि पापवुद्धिर्धर्मवुद्धिप्राह-'भो मित्र! वार्धक- भावे किं त्वमात्मविचेष्टितं स्मैरसि ? । देशान्तरमदृष्ट्वा कां शिशु जनस्य वार्ता कथयिष्यसि ?। उक्तश्च- देशान्तरेषु बहुविधभाषावेशादि येन न ज्ञातम् । भ्रमता धरणीपीठे तस्य फलं जन्मनो व्यर्थम् ।। ४३० ।। विद्यां वित्तं शिल्पंतावन्नाप्नोति मानवः सम्यक् । यावद्जति न भूमौ देशाद्देशान्तरं हृष्टः' ।। ४३१ ।। अथ तस्य तद्वचनमाकर्ण्य प्रदृष्टमनास्तेनैव सह गुरुजना- तथा च- जात. पितुरधमाधम , पितृतोऽतिन्यूनगुण. ॥ ४२७ ॥ स्वसम्वन्धिनो मस्तकस्य नाशे कवन्ध. मस्तकरहितो देहः, नृत्यति, इति हन्त ! परस्य-शिरसो नाशे हर्ष. खलकवन्धस्य ॥ ४२८ ॥ अधिष्ठान नगरे । वार्धकभावे वृद्धावस्थायाम् । आत्मविचेष्टितं स्वकृत्यम्। स्मरसि-स्मरिष्यसि। शिशुजनस्य-स्वपुत्रादिवालेभ्य ।धरणीपीठे-भूतले ॥४३०॥ सम्यकप्रभूतम् । हृष्ट-समुत्सुकः ॥ ४३१॥ १ 'तनयेनाऽतिपाण्डित्या'दिति, मारित' इति चोत्तरार्धे पाठान्तरन् । २ 'स्मरिष्यसि