पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेद ]

  • अभिनवराजलक्ष्मीविराजितम् *

१६० अन्त्यजोऽपि यदा साक्षी विवादे सम्प्रजायते । न तत्र विद्यते दिव्यं किं पुनर्यत्र देवताः ! ॥ ४३७ ॥ तदस्माकमप्यत्र विपये महत्कौतूहलं वर्तते। प्रत्यूषसमये युवाभ्यामप्यस्माभिः सह तत्र वनोद्देशे गन्तव्यम्' इति । एतस्मिन्नन्तरे पापबुद्धिः स्वगृहं गत्वा स्वजनकमुवाच-'तात! प्रभूतोऽयं मयाऽर्थो धर्मबुद्धेश्वोरितः। स च तव वचनेन परिणति गच्छति । अन्यथाऽस्माक प्राणैः सह यास्यति'। स आह-वत्स ! द्रुतंवद येन प्रोच्य तद्रव्य स्थिरतां नयामि।' पापबुद्धिराह-'तात ! अस्ति तत्प्रदेशे महाशमी। तस्यां मह- स्कोटरमस्ति, तत्र त्वं साम्प्रतमेव प्रविश। ततः प्रभाते यदाह सत्यश्रावणं करोमि, तदा त्वया वाच्यं, यद्-'धर्मबुद्धि श्चोरः' इति । तथानुष्ठिते प्रत्यूषे स्नात्वा पापबुद्धिर्धर्मबुद्धिपुर.सरो धर्मा धिकरणिकैः सह तां शमीमभ्येत्य तारस्वरण प्रोवाच- 'आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ।।४३८।। भगवति वनदेवते! आवयोर्मध्ये यश्चौरस्तं कथय ।' अथ पापबुद्धिपिता शमीकोटरस्थः प्रोवाच-भोः । शृणुत ! धर्मबुद्धिना हृतमेतद्धनम्'!। तदाकर्ण्य सर्वे ते राजपुरुषा विस्म- योत्फुल्ललोचना यावद्धर्मबुद्धेर्वित्तहरणोचितं निग्रहं शास्त्रदृष्टयाऽ वलोकयन्ति तावद्धर्मबुद्धिना तच्छमीकोटरं वह्निभोज्यद्रव्यैः परिवेष्ट्य वह्निना सन्दीपितम् । अथ ज्वलति तस्मिञ्शमीकोटरे- - इति सम्बन्ध । साधुम् अचौर ('साहूकार') । परिणति-स्थिरताम् । ('पचना' 'पूर्ण अधिकार मे आता है')। प्राणै सह-मृत्युना सह । तत्प्रदेशे वनप्रदेशे । कोटरं-निष्कुह । (खोखला भाग)। साम्प्रतम् इदानीमेव । सत्यश्रावणम् सत्या- ऽसत्यनिर्णयप्रार्थना । ('धर्मकी दुहाई देना')। तथानुष्टिते-तत्पितरि तत्र गते सति। प्रत्यूषे-प्रभाते । वृत्तम्= चरितम् ॥ ४३८ ॥ विस्मयोत्फुल्ललोचना:=आश्चर्य-