पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भेदः]

  • अभिनवराजलक्ष्मीविराजितम् *

तदन्विष्यतां कश्चिनिर्वातो वनप्रदेशो, गुहा वा, गिरिकन्दरोवा, अद्यापि साटोपा मेघा दृश्यन्ते।' अथ तेषामेकतमो वृद्धवानरस्तमुवाच-'भो मूर्ख ! किं तवा- नेव व्यापारेण । तद्गम्यताम् । उक्तञ्च- मुहुर्विनितकर्माणं द्यूतकारं पराजितम् । नालापयेद्विवेकज्ञो यदीच्छेसिद्धिमात्मनः ।। ४१८॥ तथाच- आखेटकं वृथाक्लेशं, मूर्ख व्यसनसंस्थितम् । आलापयति यो मूढः स गच्छति पराभवम् ।। ४१९ ।। सोऽपि तमनादृत्य भूयोऽपि वानराननवरतमाह-भोः ! किं वृथा क्लेशेन ? । अथ यावदसौ न कथञ्चित्प्रलपन्विरमति तावदे - केन वानरेण-व्यर्थश्रमत्वात्कुपितेन-पक्षाभ्यां गृहीत्वा शिलाया- मास्फालित उपरतश्च । अतोऽह ब्रवीमि-'नानाम्यं नमते दारु' इत्यादि ॥१॥ तथा च- उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां केवलं विपवर्धनम् ।। ४२० ।। निपातेन-पतनेनाहत-ताडितमिति वानरयूथविशेषणम् । हिमवर्षाघातपीडित- वपुरित्यर्थ । अतोऽन्यथाऽपि समाससम्भव । समन्तात् सर्वत । यूयं वानरा । निर्वात =वातरहित । गुहा-गिरिगह्वरमकृत्रिमम् । कन्दर =कृत्रिमं गिरिगह्वरम् । साटोपा =प्रवृद्धवीर्या , वर्षणप्रवणा। (आटोप-'जोश')। अनेन परोपदेशरूपेण । मुहुः - भृश । विनितकर्माणं-निष्फलप्रयत्नम् । पराजितं-द्यूतकारच्च (‘हारा हुआ जुआरी' ) न आलापयेत् न संभाषेत । वृथाक्लेशं निष्फलप्रय- नम् । आखेट क-मृगयुम् । ('शिकारी)। व्यसनसस्थित-विपत्तिग्रस्त, मूर्खञ्च- यो मूर्ख-आलापयति-तेन सह वार्तालापं करोति, स पराभवं गच्छतीत्यर्थ. ॥४१९॥ त-वृद्धवानरम्, अनादृत्य-तदुक्तमविगणय्य । अनवरतं-निरन्तरं । व्यर्थश्रमत्वात् अग्निप्रज्वालनव्यापरस्य तस्य वृथाभूतत्वात् । पक्षाभ्या गृहीत्वा पक्षयोर्गृहीत्वा ('पंख पकडकर')। आस्फालित = पातित ('पटका गया' )।