पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- अन्यच्च- उपदेशो न दातव्यो याशे तादृशे जने । पश्य वानरमूर्खेण सुगृही निर्गृही कृतः ॥ ४२१ ।। दमनक आह-'कथमेतत् ? । सोब्रवीत्- १८. वानर-चटकदम्पति-कथा अस्ति कस्मिश्चिद्वनोद्देशे शमीवृक्षः । तस्य लम्बमान- शाखायां कृतावासावरण्यचटकदस्पती वसतः स्म । अथ कदा. चित्तयोः सुखसंस्थयोहेमन्तमेघो मन्दं मन्दं वर्षितुमारब्धः ! अत्रान्तरे कश्चिच्छाखामृगो वातासारसमाहतः प्रोद्भुषित- शरीरो दन्तवीणां वादयन्वेपमानस्तच्छमीमूलमासाद्योपविष्टः । अथ तं तादृशमवलोक्य चटका प्राह-'भो भद्र! हस्तपादसमायुक्तो दृश्यसे पुरुपाकृतिः। शीतेन भिद्यसे मूढ ! कथं न कुरुषे गृहम् ? ॥ ४२२ ॥ एतच्छुत्वा तां वानरः सकोपमाह-'अधमे ! कस्मान्न त्वं मौनव्रता भवसि ? । अहो ! धाष्टर्यमस्याः, अद्य मामुपहसति !। सूचीमुखी दुराचारा रण्डा पण्डितवादिनी। नाशङ्कते प्रजल्पन्ती तत्किमेनां न हन्म्यहम् ।। ४२३ ॥ एवं विचिन्त्य तामाह-'मुग्धे ! कितव ममोपरि चिन्तया? उपरत =मृत । यादृशे तादृशे-पामराय अविज्ञातकुलगीलाय च । चतुर्थ्यर्थ सप्तमी। (चाहे जिसको ) । निर्गृही-गृहविहीन ॥४२१॥ उद्देशे प्रदेशे। शमीवृक्ष =सक्तुफलावृक्षः, ('जाट' का पेड)। हेमन्तमेघ %3D हेमन्तकाले भवो मेघ. । शाखामृग वानर । वातासारसमाहत -गीतेन वायुना चलवता वर्षेण च ताडित । प्रोद्भुषितशरीर =सङ्कुचितगात्र , गदायमानवपुश्च । दन्तवीणा वादयन् दन्तान् दन्तैर्वादयन् (जाडे के मारे दात कटकटाता हुआ)। हस्त- पादसमायुक्त उद्योगसमर्थाऽविकलहस्तपादयुत । भिद्यसे-पीड्यसे । 'खिद्यसे' इति गौडा पठन्ति । अधमे ! पापे ! मौनव्रता वाचयमा ('चुप')। धाष्टर्य= १ 'पण्टिनमानिनी।